________________
अष्टमः सर्गः ।
त्रपुकाकरमालोक्य मुक्त्वाऽयो जगृहुत्र ||४२ || तानुद्वीक्ष्य महामोहादेको लोहं न मुञ्चति । सीसपत्रं ततस्ताम्रं रूप्यं स्वर्ण महाद्युति || ४३ ॥ दृष्ट्वा विमुच्य पूर्वाप्तं वणिजो मुदिताशयाः । लोभवन्तः स्म गृह्णन्तस्ते मणीननणीयसः ॥४४॥ एकस्तु भण्यमानोऽपि तैर्वणिग्भिः पदे पदे । तन्मोहं नैव तत्याज महामोहमिवापरम् ||४५|| ततः सर्वे समायाताः स्वेषु स्वेषु गृहेषु ते । मणिविक्रयमाहात्म्याद् बभूवुर्धनदा इव ||४६|| लोहग्राही तदा तूचैक्ष्य वीक्ष्य दिने दिने । सञ्जातराजयक्ष्मेव क्षीयते स्म प्रतिक्षणम् ||४७॥ तथा तवापि भूमीश ! पश्चात्तापो भविष्यति । अथो विमुच्यतामेष कदाग्रहमहाग्रहः ||४८ || श्रुत्वेति स्वामिनोदीर्ण प्रभुं नत्वा क्षितीश्वरः । उवाच जगतीनाथ ! भवादुत्तारयाऽधुना ॥ ४९ ॥ स्वामिन् ! मोहपिशाचो मे नष्टस्त्वन्मूर्त्तियन्त्रितः । उद्भूतं च शुभं ज्ञानं ज्ञातं तवं प्रभूदितम् ॥५०॥ परमेतावता सद्भिः श्लाघ्यतेऽयं भवो नृणाम् । निर्वाणान्तसुखप्राप्तेर्हेतवोऽत्रैव यगुणाः ॥ ५१ ॥ उक्त्वेति नगरीं गत्वा राज्ये न्यस्य स्वनन्दनम् । सप्तशतमितै राजपुत्रैः पावित्र्यहेतवे ॥ ५२ ॥ दत्वा दानानि सर्वत्र यथार्थो नृप आस्तिकः । प्रभूच्चारितसन्मन्त्राद् नाथस्यान्तेऽभवद् यतिः ॥ ५३ ॥ इतश्च शाल्मलीग्रामेऽभिरामो गोधनोत्करैः । वृषपोषपरः शश्वत कठसंज्ञः कृषीवलः ॥५४॥ दारिद्र्यभिक्षुकमठी कठीनासाऽस्य वल्लभा । आपन्नसत्त्वा समभूत् सा तुतोष स्वमानसे ।। ५५ ।।
२९५