SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः। २९१ चामैस्तु शक्तिमुद्गरवीजपूराक्षिमूत्रिभिः । चञ्चच्चतुर्मुखाम्भोजः श्रीमल्लिक्रमसेवकः ॥११५६॥ (त्रिभिर्विशेषकम् ) वैरोटया नाम तत्तीर्थे समभूत् शासनेश्वरी । कृष्णाङ्गी कमलासीना सोमा सोमाननाम्बुजा॥११५७॥ पुरः पुरस्थैर्विनयाभिननै बन्दारुभिर्देवगणैरुपेतः। हेमाम्बुजन्यस्तपदारविन्दः श्रीमल्लिनाथो विजहार तस्मात् ॥११५८।। इत्याचार्यश्रीविनयचन्द्रविरचिते श्रीमल्लिखामिचरिते महाकाव्ये विनयाङ्के सम्यक्त्वपूर्वकप्राणातिपातादिव्रतेषु सुदत्त-सुबन्धु-सङ्गमक-सुदर्शनं-भोगदत्त-मित्रानन्दभीम-भीमसेन-लाभनन्दि-ताराचन्द्र-चन्द्रावतंसक-धनसेन शिखरसेन-चन्दनबाला फलव्यावर्णनो नाम सप्तमः सर्गः । --- --- अहम् अष्टमः सर्गः। अथ श्रीभगवान् मल्लिर्निदधानः क्रमद्वयीम् । दिव्यस्वर्णसरोजेषु न्यस्यमानेषु नाकिभिः ॥१॥ प्रभापूरितदिक्चक्रे धर्मचक्रे प्रसर्पति । पुरः स्थिते विराजिष्णौ रविसब्रह्मचारिणि ॥ २ ॥ ऋतुषु भ्राजमानेषु स्मेरैः पुष्पैनिजैनिजैः। .. कण्टकेषु च जातेषु नम्रेषु न्यग्मुखेषु च ॥ ३ ॥ प्रदक्षिणं च गच्छत्सु ततपक्षेषु पक्षिषु । .
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy