________________
मल्लिनाथमहाकाव्ये
नखंपचरजालोकगायुः कर्मनाशनः ॥ १०६३॥ सर्वत्र क्षिप्तकारीषपावकोपम्यमध्वसु । वहमानेषूलूकानां झलत्कारेषु सर्वतः ॥ १०६४ ॥ श्रेष्ठी धनावहो गेहमासाद्य चिरपान्थवत् । हात मन्त्रमुच्चार्य निविष्टो दृष्टविष्टरे || १०६५॥ तहिक्षालकः कोऽपि नासीद् दासीमुखो जनः । विनयाच्चन्दनोत्थाय निषिद्धा श्रेष्ठिनाऽपि हि ॥१०६६॥ पादौ क्षालयितुं भक्त्या प्रावर्त्तिष्ट विशिष्टधीः । भवेत कुलप्रसूतानां विनयो मण्डनं यतः || १०६७॥ सुभगः केशपाशोsस्या निपतन् पङ्किलक्षितौ । लक्ष्यते स्म मुखैणाङ्कभयात्तम इव व्रजन् ॥ १०६८॥ मा भूतर्हि वत्सायाः पङ्किलः कचसंचयः । इति यष्ट्या दधारोचैः पितृवत् प्रेमलालसः ॥ १०६९॥ एतच्च श्रेष्ठिनी दूरजालकान्तरवर्त्तिनी । विलोक्य ध्यातवत्येवं तत्सत्यं चिन्तितं च यत् ॥ १०७० ॥ पत्नीत्वसत्यङ्कारोऽस्याः केशपाशनियन्त्रणम् । पितुः क्रियेशी नैव, दुर्जया भवितव्यता ॥ १०७१ ॥ उच्छेद्या तदियं मूलाद् गरवल्लीव जङ्गमा । इति निश्चयमाधाय मौनं मूला चकार सा || १०७२ || जगाम विपणि श्रेष्ठी मूलाऽप्याऽऽहूय नापितम् । रोगार्त्ताया इवामुष्याः केशपाशमनाशयत् ॥ १०७३ ॥ ददौ च पादयोः कामं निगडानि दृढान्यपि । चन्दनां ताडयामास स्वकरैः करिणीमिव ॥ १०७४॥ गृहापवरके न्यस्य सा बन्दीमिव चन्दनाम् । कपाटसंपुढं दवा कोपाटोपादवोचत ||१०७५ | यः कश्चित श्रेष्ठोऽप्यग्रे चन्दनों कथयिष्यति । स मे कोपहुताशस्य होमद्रव्यं भविष्यति ॥ १०७६ ॥
२८४