________________
सप्तमः सर्गः।
२७१ चलितः पूर्णगोणीकैः वृषैः पञ्चशतैर्युतः ॥ ८९६ ॥ कण्ठबद्धस्फुरद्धण्टानिर्घोषाः प्रासरंस्तराम् । देशान्तरश्रियामाकारणदृता इवोद्भटाः ॥ ८९७ ॥ बङ्गाङ्गयोरन्तराले सार्थस्तस्योषितोऽखिलः। मिमिलुरपरे सार्थ सार्था वार्धाविवापगाः ॥ ८९८ ॥ धनसेनोऽथ शर्वर्या कृतार्चस्त्रिजगद्गुरोः । आ सार्थाद् विदधे देशावकाशिकं व्रतं मुदा ॥ ८९९ ॥ इतश्च निशि कोऽप्येत्य जगाद वणिजां पतिम् । देव! नाहलसंघाताश्चेलुः सार्थजिघृक्षया ॥९०० ॥ इदं वृत्तं परेषां स वैदेहानां जगाद तु । तेऽप्यूचुस्तहि वेगेन नश्यतां धनसेन ! भोः ! ॥९०१ ॥ न्यगदद् धनसेनोऽथ व्यूहं कृत्वाऽत्र तिष्ठत । नाहलानीकिनीसंघाः किं करिष्यन्ति जाग्रताम् ? ॥९०२॥ यष्टिभिर्मुष्टिभिश्चापैः प्रस्तरैर्गोलकादिभिः । व्यूह भेदं विधास्यन्ति धनसेनेति चिन्तय ॥ ९०३ ॥ अथाऽभ्यधाद् धनसेनो मया स्थातव्यमत्र यत् । आ सार्थात्परतो यस्मानिषेधो गमने निशि ॥ ९०४ ॥ अहो ! ते मूर्खता भद्रावादीद् यनियमो मम । वस्थावस्थासु कर्त्तव्यं व्रतस्य परिपालनम् ॥ ९०५ ॥ भद्र ! धर्मप्रभावात्ते भूयाद् रक्षा निशान्तरे । वयं नु सधना यामो नश्यतां नास्ति भीः कचित् ॥९०६॥ वैदेहा अपरे सार्थमादाय रजनीमुखे । भीत्या मृगा इवाऽनश्यन्नास्ति मृत्युसमं भयम् ॥ ९०७॥ तेषां प्रणश्यतामर्द्धमार्गे भिल्ला उदायुधाः। आययुः संमुखं मूर्ताः कालरात्रिसुता इव ॥ ९०८ ॥ अथ तैर्वेष्टितः सार्थः शरीरीवोग्रकर्मभिः । गृहीतसारश्च कृतः प्रहतः प्रस्तरादिभिः ॥ ९०९ ॥