SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः। स प्रणम्य जिनाधीशं भावशुद्धया पवित्रितः । कुमारं प्रति सस्नेहं जगाद वदतां वरः ॥९८॥ गन्धारश्रावकं विद्धि मामयोध्यानिवासिनम् । धुर्येष्विव स्वपुत्रेषु न्यस्तोकोभारसम्पदम् ।। ९९।। जन्मदीक्षादितार्थेषु प्रतिमास्त्रिजगद्गुरोः। वन्दमानो महातीर्थमहमागतवानिह ॥१०॥ अत्रैवानशनं कृत्वा परलोकः सुनिर्मलः । उपार्जनीयो भावेन नो कार्य मयकापरम् ॥१॥ यतोऽह्नि ह्यस्तने भद्र ! विद्याधरमहामुनिः। वन्दितो भावतो ज्ञानशातविश्वत्रयस्थितिः ॥ २ ॥ स प्रणम्य मयाऽपृच्छि प्रमाणं निजकायुषः। तेनोचे जीवितं भद्र ! पश्चैव दिवसानि ते ॥ ३ ॥ मया तदत्रायातेन साध्यैवानशनास्थतिः । मुक्तिः श्रीवश्यविद्येव त्वत्त उत्तरसाधकात् ।। ४ ॥ निशम्येदमुवायोच्चै रत्नेन्दुर्विस्मिताशयः। किं साहाय्यं मया कार्य परलोकोत्सुकस्य ते ॥ ५ ॥ अथाभाषिष्ट गन्धारो गृहाण विधिपूर्वकम् । मन्त्रं पश्चनमस्कारसंज्ञया ख्यातिमागतम् ॥ ६ ॥ यतः- . ये याता येऽपि यास्यन्ति ये च यान्ति परं पदम् । ते सर्वेऽपि नमस्कार स्मारं स्मारं कृतस्मयाः ॥ ७ ॥ नमस्कारः पिता माता नमस्कारः परो गुरुः । नमस्कारः प्रियं मित्रं नमस्कारः कुलं बलम् ॥८॥ आयान्ति यस्य माहात्म्यादाकृष्टा इव सम्पदः । विपदश्च विनश्यन्ति श्रुतेरिव कुवासनाः ॥ ९ ॥ नमोर्हदादिभ्य इति महामन्त्रं पवित्रधीः । स्थातः ।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy