________________
सप्तमः सर्गः ।
तस्मादुत्तार्य भाण्डानि कूले कूलंकपापतेः ।
उत्करान् कारयामास श्रियां क्रीडाऽचलानिव ।। ७१३ || पुरन्दरपुरं प्राप्य श्रिया पौरन्दरं पुरम् । तत्राऽभूद् भूपतिः स्फीतवाहनो मेघवाहनः ॥ ७१४ ॥ लोभनन्दीति तत्राऽभूत् सत्यार्थी वणिजां पतिः । पापकर्मरतो नित्यं महामोहनिकेतनम् || ७१५ ॥ तत्रैव नगरे मन्त्री काणको वञ्चनामतिः । बुद्ध्या गृहीतद्रविणः परेषां पश्यतामपि ।। ७१६ ॥ तयोर्मन्त्रधियां पात्रं सत्रागारमिवैनसाम् । सुशिल्पी चर्मकारोऽस्ति मायामय इतीरितः ।। ७१७ ॥ सवितुर्मन्दिरे शान्तो द्विजो होराविचक्षणः । 'अविद्यमान नेत्रोऽपि त्रिलोचन इति स्मृतः ॥ ७१८ ।। इतश्च लोभनन्द्येष श्रुत्वा पोतं समागतम् । ताराचन्द्राऽन्तिके प्राप गृहीत्वा प्राभृतं निशि ॥७१९॥ संभाषमुचितं कृत्वा पप्रच्छाऽस्वच्छमानसः । पोतभाण्डं कियद् भद्र ! ममाऽशेषं निगद्यताम् ||७२०|| प्राञ्जलत्वात्ततस्तेन सर्वमुक्तं यथास्थितम् ।
२५७
शिरो विधूय तेनापि सखेदमिव भाषितम् ।। ७२१ ॥ प्रयास एव जातस्ते कुभाण्डाऽऽनयनात् परम् । यस्मादमीषां न कापि विक्रयः कपिवद् भवेत् ।। ७२२ ॥ हो ! तथापि गृहेऽहं पुरा कीर्त्तिभयात् परम् । दास्येऽहं प्रस्थमेकं ते निजमानसवाञ्छितम् ॥ ७२३ ॥ तथाsseतमनेनापि सत्यङ्कारः समर्पितः ।
लग्नका विहिताः पौरा भाण्डं दृष्ट्याहतं कृतम् ॥ ७२४ ॥ परकीयाsपि मेऽद्य श्रीरात्मीयेति विचिन्तयन् । गत्वा गृहं सुखं सुप्तः सुतोद्वाहक्षणादिव ।। ७२५ ।।
| प्राप्तः, इत्याप |
३३