________________
प्रथमः सर्गः ।
केयं रोदिति सत्रासं निवरेव वराकिका ? ॥ ४६ ॥ उच्चचार कथङ्कारं मन्नाम प्रकटाक्षरम् | सहक्षाण्यभिधानानि श्रूयन्ते वाऽवनीतले ॥ ४७ ॥ परं देहव्ययेनापि सवलैरबलाजनः । त्रातव्योऽतिप्रयत्नेन क्षत्रियार्थं वितन्वता ॥ ४८ ॥ विमृश्येति करे कृत्वा कृपाणं सकृपाशयः । स्वरानुसारतस्तस्या दधावे क्रोधदुर्धरः ।। ४९ ।। प्रज्वलत् खदिराङ्गारपूर्ण कुण्डतटस्थिताम् । कण्ठपीठधृतारक्तकरवीरस्रजं पुरः || ५० ॥ बद्धपाणिपदद्वन्द्वां सुनानीतामजामिव । भयलोलदृशं चिल्लीं श्येनचञ्चुगतामिव ॥ ५१ ॥ अद्राक्षीदबलां बालामालानितवशामिव । कपालिनं च धारालकर्त्तिकानर्त्तनोद्यतम् ॥ ५२ ॥ (त्रिभिर्विशेषकम् )
तमूचे च विमर्याद ! रे रे कापालिकाधम ! | अशरण्यामरण्ये किमेनां हन्तुं समुद्यतः १ ॥ ५३ ॥ रे प्रहर्तुमिमां पाप ! कथमुत्सहते मनः ? | अथवा पापकुम्भस्ते तूर्ण पूर्णोऽय विद्यते ॥ ५४ ॥ तन्मन्ये तव निर्लज्ज ! भुजौजः शिष्टगर्हितम् । यदीदृशे जने दीने प्रजिहीर्षुः प्रवर्तसे ।। ५५ ॥ इत्युक्तिव्यक्तिमाकर्ण्य कर्णायः सूचिसूचिकाम् । उद्दधावेतरां योगी भीमः कल्पान्तभीमवत् ॥ ५६ ॥ कटुवाक्यगिरां कल्पः शिक्षितोऽद्य कुतस्त्वया । आविरासीद् ध्रुवं धात्र्यां यदि वा त्वत्त एव सः ॥५७॥ रे वीरखेटवाचाट ! याहि दृष्टेन वर्त्मना । यदि वैष स्वभावेन परतप्तिपरो जनः || ५८ ॥