SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः। दुर्दान्तानां तनूजानां शिक्षा भवति नान्यथा ॥१०४॥ निष्कलोऽसौ दिनैः स्तोकैरव्ययद् वित्तसंचयम् । निर्धनश्चापि संवृत्तो दुर्वृत्तानां हि तत्कियत् ? ॥१०५॥ साक्षात् शूलास्वरूपेण कलत्रेण कदार्थतः । नाऽभुत समये नीरमपिबद् नापि सौख्यतः ॥१०६॥ गृहस्यान्तःप्रविष्टोऽसौ न ब्रूते कृतमौनवत् । कलिभीत्या मन्यते च तद्वाक्यं गुरुवाक्यवत् ॥१०७॥ अथ वर्षासु सीरं स वाहयामास दुःखितः । निष्कलानां हि कर्माणि कृष्यादि किल भुक्तये।।१०८॥ कदन्नमशनं साऽप्यपराह्ने रुक्षशीतलम् । प्रददौ प्रत्यहं पत्यै सोऽप्यभुत दिवानिशम् ॥१०९।। सोऽपरेछुहलक्षेत्रे वाहमानः कृशाङ्गवान् । प्राजनेन बलीवर्दै खलं दुर्बलविग्रहम् ॥११०॥ ताडयन्नित्यभाषिष्ट रे रे वृषभ ! सादरम् । शीघ्रं परिणाययिष्ये शान्तो मद्वद् भवाऽन्यथा॥११॥ वाह्यालीविनिवृत्तोऽथ भूपः शुश्राव तद्वचः। हंहो वत्स ! कदा तेगाद् दुर्दान्तत्वमनुत्तरम् ॥११२॥ स प्रोवाच यदा देव! त्वयाऽस्मि परिणायितः । तदाऽभूद् मम शान्तत्वं तत्त्वं तत्त्वविदो यथा ॥११३॥ इतः प्रभृति यत्किश्चिद् गुरवो गौरवान्वितम् । निदेक्ष्यन्ति विधास्यामि तदहं निरहंकृतिः ॥११४॥ ततः सगौरवं राजा जिनचन्द्रसमुद्भवाम् । सुताममृतमुख्याख्यां श्रेष्ठिजं पर्यणाययत् ॥११५॥ सर्वथा मुक्तदौर्गत्यः सर्वथाकृतसक्रियः। सर्वथा रञ्जितजनः सर्वथाऽभूच्छमादृतः ॥११६॥ विषयान् सेवमानस्य समभूत् तस्य नन्दनः । सोमदेव इति ख्याता तस्याऽऽख्या भूभुजा कृता॥११७॥
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy