SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ 1 तमः सर्गः । सर्वथा जीवरक्षार्थं यतन्ते कुलजा मम । इत्यतो नाधिकं वेद्मि बाल्यतः पृथिवीपते ! ॥५२॥ निशम्येति नृपोऽवोचद् धन्यं श्राद्धकुलं क्षितौ । यस्मिन् बाला अपि दयाकृष्टाः शिष्टताजुषः ॥ ५३ ॥ बालका अपि यत्रेहरजीवरक्षापरायणाः । ये पुनीत सिद्धान्तास्ते कीदृक्षाः क्षमातले ? ॥ ५४॥ प्रशस्येति श्राद्धकुलं सुदत्तं दत्तशासनम् । अङ्गरक्षक नेतृत्वे चकार क्षोणिनायकः ।। ५५ ।। नृपाङ्गरक्षां कुर्वाणस्तीर्थनाथार्चनोद्यतः । कुलीनललनोद्वाही दानशौण्डः प्रशान्तधीः ।। ५६ ।। श्रीचन्द्रप्रभतीर्थेशसमीपे श्रावकत्रतम् । २०७ आदाय विधिना शुद्धं सम्यक्त्वविधिबन्धुरम् ||५७|| पर्यन्तेऽनशनं कृत्वा परमेष्ठिस्तवं स्मरन् । मृत्वा माहेन्द्रकल्पेऽभूत् तस्माद् निर्वाणमेष्यति ॥ ५८ ॥ सुदत्तस्य यथा जातमिहाऽमुत्र श्रियां पदम् । तथान्येषामपि भवेत्प्राणिनां वधरक्षणात् ॥ ५९ ॥ अथ नत्वा जिनं कुम्भो जगाद रचिताञ्जलिः । धन्यः सुदत्तो भगवान् यो बाल्येऽपि दयापरः ॥ ६० ॥ राजन् ! प्राणातिपातस्य विरतेर्भूषणं सदा । मृषावादं परिहरेत् द्वैतीयीकमणुव्रतम् ॥ ६१ ॥ सत्यं कीर्तिलतामूलं सत्यं पुण्यनदीगिरिः । सत्यं विश्वाससौधं च सत्यं लक्ष्मीनिकेतनम् || ६२|| यथा पुण्ड्रेण रामाया वक्ताम्भोजं विभूष्यते । यथा गङ्गाप्रवाहेण पूयते भुवनत्रयम् ||६३|| यथा च शोभते काव्यं सार्थयां पदशय्यया । तथा सत्येन मनुज इहामुत्र विराजते ||६४ || ( युग्मम् ) प्रतिष्ठाः लोकविश्वासप्रत्यया अनृतोदितेः ।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy