SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ मल्लिनाथमहाकाव्येश्रीषष्ठाङ्गादिदं चित्रमहं ग्रश्रामि माल्यवत् । आरामिक इवारामादुचित्य सुमनोभरम् ॥ १० ॥ जम्बूद्वीप इति द्वीपः कनकाचलकर्णिकः।। स्पष्टाष्टदिग्दलाकीर्णः प्रोभिद्रशतपत्रति ।। ११ ।। तत्रापरविदेहेषु विजयः सलिलावती । वीतशोका पुरी तत्र वीतशोकजनाकुला ।। १२ ।। प्रबन्धाः पुष्करिण्यश्च गम्भीरपदसंक्रमाः। राजन्ते यत्र सरसाः कविम्त्रभृता कृताः ॥ १३ ॥ परोपकारप्रगुणा उत्तमर्णाः प्रियम्बदाः । धैर्यवन्तो जना यत्र सुषमाकालजातवत् ॥ १४ ।। अवृद्धिवारिधेरेव निष्कोशत्वमसेरपि । दानच्छेदो गजस्थापि न यस्यां पौरुषेष्वभूत् ॥ १५ ॥ बलो नाम नृपस्तत्र बलेन बलसूदनः । वैरिवारबलोन्माथी ऋद्धया बलिनिषूदनः॥१६॥ अम्भोधिना गभीरत्वे पारीन्द्रश्च पराक्रमे । कल्पक्षितिरुहेर्दाने जाने यस्याधमर्ण्यते ।। १७ ।। आकार एव यस्योचैः शशंस प्रभुसम्पदम् । छत्रचामरकोटीरहारप्रभृति तु स्थितिः ।। १८ ॥ विलासराजहंसानां विकस्वरसरोजिनी । वशीकरणविद्येव शृङ्गाररसयोगिनः॥ १९ ॥ देव्यस्य धारिणी नाम शीलालङ्कारधारिणी । सारिणी गुणवल्लीनां चातुर्यरसहारिणी ॥२०॥ (युग्मम् ) पुर्यामन्यगुरुद्याने वने नाम्नेन्द्रकुब्जके । रत्नचन्द्राभिधोऽभ्यागात् मुनिर्दोषान्धकारभित् ॥२१॥ यस्यासन्नसरस्तीरपादपाः प्रतिबिम्बिताः । (१) योगिनीत्यपि।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy