________________
१९८
मल्लिनाथमहाकाव्ये
त्वां नेष्यामि रथारूढं निशान्ते कुण्डिनं पुरम् ॥४९९॥ राजा स्थगीभृच्छत्री च कुब्जचामरधारिणौ । षडप्यमी रथं सजं तमारुरुहुरुत्सुकाः ॥ ५०० ॥ तं करण्डं च बिल्वं च संनिबध्य कटीतटे । वाहानखेटयत् कुब्जः स्मृतपश्चनमस्कृतिः॥ ५०१॥ नलेन चाश्वहृद्विद्याविदा स प्राजितो रथः। जगाम मनसा सार्ध मनोरथ इवाङ्गवान् ॥ ५०२ ॥ दधिपर्णोत्तरीयं च रथरंहोऽनिलेरितम् । साक्षाद् भैमीसमायोगमनोरथ इवापतत् ॥ ५०३ ॥ कुब्जं बभाषे भूपालो विलम्बय रथं क्षणम् । उड्डीय यातां वातेन यथा गृह्णाम्यहं पटीम् ॥५०४॥ स्मित्वा कुब्जोऽवदत् काऽस्ति पटी तव धराधव ! ? । पटीपातादतिक्रान्तं क्रोशानां हि शतं हयैः ॥५०५।। मध्यमौ तुरगावेतौ, भवेतां यदि तूत्तमौ । एतावता व्रजेतां तौ ततः क्रोशशतद्वयीम् ॥५०६॥ दधिपर्णोऽथ दूरादप्यक्षवृक्षमुदैवत । कुब्जमूचे फलान्यस्य कथयाऽगणयन्नपि ॥ ५०७ ॥ व्यावृत्तो दर्शयिष्यामि कौतुकं ते, नलोऽवदत् । मा भैर्मय्यश्वहृद्विद्याविदि कालविलम्बतः ॥५०८॥ एकमुष्टिप्रहारेण नलः फलान्यपातयत् । अष्टादश सहस्राणि कथितानि तथाऽभवन् ॥ ५०९ ॥ ददौ कुब्जोऽश्वहृद्विद्यां दधिपाय वर्ण्यधीः। . विधां च फलसंख्यायाः स तस्माद् विधिनाऽऽददे।५१०। स रथः कुण्डिनाभ्यर्ण यातः प्रातर्नलेरितः । निशान्तेऽथ निशान्तस्था भैमी स्वप्नं तदैवत ॥५११॥ तत्पित्रेकथयच्चैवं जाने निर्वृतिदेवता । कोशलोद्यानमानीयाऽदर्शयद् गगनाङ्गणे ॥ ५१२ ॥