SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १९२ मल्लिनाथमहाकाव्येकुतो वा मानुषी भाषा तवेयं नयनश्रवः ! १॥४१९॥ स आख्यदवधिज्ञानात्सर्व विदितमेव मे । प्राग्भवे मनुजोऽभूवं तेन भाषा च मानुषी ॥४२०॥ नलोऽवलोक्य साकम्पं सकृपस्तं सरीसृपम् । समाक्रष्टुं निचिक्षेप निजां वल्लीवने पटीम् ॥ ४२१ ॥ भूलग्नमञ्चलं प्राप्य पत्रगोऽवेष्टयद् भृशम् । पटीलग्नं परसुखोत्कर्षी राजा चकर्ष तम् ॥४२२॥ गत्वा दूरप्रदेशे तं दवस्याऽगोचरेऽमुचत् । मुच्यमानेन दष्टश्च पन्नगेन करे नलः ॥ ४२३ ॥ नलोऽवदत्तमाच्छोव्य भवता स्वोचितं कृतम् । पयः पाययते योऽपि युष्माभिः सोऽपि दश्यते॥४२४॥ नलस्यैवं ब्रुवाणस्य प्रससर्प विषं तनौ । वपुः कुन्जमभूत्तेन वार्धकेनेव बाधितम् ॥ ४२५ ॥ सूक्ष्मक्रमकरग्रीवो लम्बोष्ठः पिङ्गकुन्तलः । अलिञ्जरोदरो मूयो बीभत्सोऽभूद्विषाद् नलः॥४२६॥ अचिन्तयच्च रूपेणाऽनेन मे प्राणितं वृथा । तद् गृह्णामि वरं दीक्षामप्यक्षयफलप्रदाम् ॥४२७॥ नलस्य ध्यायतश्चैवं मुक्त्वा सर्पः स सर्पताम् । दिव्यालङ्कारसम्भारधारकोऽभूत् क्षणात् सुरः॥४२८॥ ऊचे च मा कृथाः खेदं पिताऽस्मि निषधस्तव । दीक्षाग्रहणतो ब्रह्मलोके वृन्दारकोऽभवम् ॥ ४२९॥ ज्ञात्वा चावधिनाऽवस्थां तवेमा मायया मया। समस्ताङ्गेषु वैरूप्यं विहितं ते हितं ननु ॥ ४३० ।। दण्डिताः खण्डिता दासीकृताश्च भवता द्विषः । ते त्वामनुपलक्ष्यत्वात् पीडयिष्यन्ति नाधुना ॥४३१॥ अधुनापि विधेयो न त्वया दीक्षामनोरथः। अद्यापि भरतस्याध भोक्तव्यं भवता यथा ॥४३२॥
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy