SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः । १९५ ॥ तत्राक्षराणि संवीक्ष्य मुदिताऽवाचयत् ततः ॥ १९३॥ अचिन्तयच्च तच्चेतोगगनाङ्गणचन्द्रिका | ध्रुवमस्म्यन्यथाऽऽदेशप्रसादोऽयं कथं मम ॥ १९४ ॥ ततः स्वभर्तुरादेशं दधाना हृदयेऽधिकम् । व्रजामि स्वपितुर्धा पत्युर्न तु पतिं विना ॥ मया सह प्रियेणाऽपि गन्तव्यं वाञ्छितं पुरा । विशेषेणाद्य तद् यामि पत्यादेशात् पितुर्गृहम् ॥ १९६॥ ध्यात्वेति गन्तुमारेभे दवदन्ती वटाध्वना । वीक्ष्यमाणाऽक्षराण्युच्चैर्मूर्त नलमिवाऽग्रतः ॥१९७॥ व्याघ्रा व्यात्तमुखाः सर्पाः सदर्पा नगजा गजाः । ज्वाला जाङ्गुलिका सिंहीवदस्या दूरतोऽभवन् ।। १९८ ॥ अन्येऽप्युपद्रवास्तस्या यान्त्या वर्त्मनि नाऽभवन् । पतिव्रताव्रतं स्त्रीणां क्षेमस्थेमावहं यतः ॥ १९९ ॥ सा लोलकुन्तला स्वेदजलाविलवपुलता । समुत्सुकपदं यान्ती हृद्यमान्ती महाशुचा ॥ २०० ॥ दर्भविद्धपदप्रोद्यद्रक्तसिक्तमहीतला । . सार्थमेकमुदैक्षिष्ट विष्टपर्धिनिकेतनम् ॥ २०९ ॥ अचिन्तयच्च सार्थोऽयं मया लब्धस्तरण्डवत् । अरण्यार्णवनिस्तारस्तदनेन भविष्यति ॥ २०२ ॥ यावत् तस्थावसौ स्वस्था दवदन्ती महासती । तावत् तं रुरुधुः सार्थ कचिदागत्य दस्यवः ॥ २०३ ॥ आयान्तीमिति च दृष्ट्रा ततश्चौरचमूममूम् । चकारधिभयां लोको यतः स्याद् भाजने भयम् ॥ २०४ ॥ मा मा यूयं भयं लोकाः ! कुरुध्वं सार्थवासिनः । तदीयगोत्रदेवीवाऽवादीदिति नलप्रिया ॥ २०५ ॥ तस्करानवद् रे रे ! यात दूरं दुराशयाः ! | अन्यथाऽनर्थसार्थो वः सार्थो यद् रक्ष्यते मया ॥ २०६ ॥ १७५
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy