________________
१६८
मल्लिनाथमहाकाव्ये
नलथ दवदन्ती च स्वेच्छयोद्यानवीथिषु । गतं कालं न जानाति, स्वर्गिणामित्र दम्पती ॥ १०० ॥ ( युग्मम् ) अन्यदा निषधो राज्ये स्थापयित्वा नलं सुतम् । यौवराज्ये कुबरं च स्वयं दीक्षामुपाददे ।। १०१ ॥ न्यायधर्ममयं राज्यं नलः प्रवलविक्रमः । पालयन्नन्यदाऽपृच्छदमात्यादीन् क्रमागतान् ॥ १०२ ॥ पित्रादीनां भुवं शास्म्यधिकां वा ते ततोऽवदन् । त्र्यंशोनं भरतं भुक्तं त्वत्पित्रा सकलं त्वया ।। १०३ ॥ किन्तु तक्षशिला नाम पूर्योजनशतद्वये । तत्र राजा कदम्बोऽस्ति त्वदाज्ञां स न मन्यते ।। १०४ ॥ तच्छ्रुत्वा नलभूपालः कोपाटोपसमुद्भटः । दूतं व्यसृजदेतस्य स गत्वा तमवोचत ।। १०५ ।। मत्स्वामिनोऽनलस्फूर्तितेजसो नलभूपतेः । आत्मानं यमपूर्मध्ये आज्ञां मा नय मानय ॥ १०६ ॥ कदम्बराजस्तच्छ्रुत्वा भृकुटीभीषणाननः । तमर्धचन्द्रयाञ्चक्रे स्वकीयमिव जीवितम् ॥ १०७ ॥ दूतोऽपि गत्वा तत्सर्व नलायाऽकथयत्तराम् । तं चाऽभिषेणयाञ्चक्रे नलः सबलवाहनः ॥ १०८ ॥ सैन्येन वेष्टयामास नलस्तक्षशिलां पुरीम् । कदम्बः सह सैन्येन संमुखस्तस्य चाभवत् ॥ १०९ ॥ मिथः समरसंरम्भसमारम्भे तयोर्भृशम् । नलः कदम्बं निर्द्वन्द्वो द्वन्द्वयुद्धमयाचत ।। ११० ॥ तौ द्वावपि ततो द्वन्द्वैर्युद्धैरुद्धतदोर्युगौ । अयुध्येतां चिरं तत्र जङ्गमौ पर्वताविव ॥ १११ ॥ सर्वेष्वपि हि युद्धेषु कदम्बमजयद् नलः । अपसृत्य स जग्राह व्रतं वैराग्यवासितः ॥ ११२ ॥