________________
१६५
. षष्ठः सर्गः। . सर्वेषामपि भूपानां स्वागतं कुण्डिनेश्वरः। चकार युज्यते ह्येतदागतेऽभ्यागते जने ॥ ६०॥ । अचीकरदथो भीमः स्वयंवरणमण्डपे । मश्चास्तदन्तःसौवर्णसिंहासनमनोहरान् ॥ ६१ ॥ आययुस्तत्र राजानो दिव्यालङ्कारभासुराः । निषेदुरथ मश्चेषु कुर्वाणाः स्फुटचोष्टितम् ॥ ६२ ॥ कश्चित् करसरोजेन लीलासरसिज जितम् । लीलयोल्लालयामास निरस्यन्निव दूरतः ॥ ६३ ॥ कश्चिच मल्लिकामाल्यमाजघौ भृङ्गवद् युवा । यशसो मल्लिकायाश्च परीक्षितुमिवान्तरम् ॥ ६४ ॥ कश्चिदुल्लालयाश्चक्रे करात् कुसुमकन्दुकम् । दधानो गोलकाभ्यासं पुष्पायुध इवाधिकम् ॥६५॥ पस्पर्श पाणिना कश्चिद् मासुरी वामनुक्षणम् । .. अहमेव पुमानेवमिव शंसितुमादरात् ।। ६६ ॥ अनर्तयच्छुरी कश्चिद् मुष्टिरङ्गे मुहुर्मुहुः । क्वणकङ्कणतालेन नाट्याचार्य इवोद्भटः ॥ ६७ ॥ दीपदीपप्रभेव द्रागाययौ वरमण्डपम् । योतयन्ती दवदन्ती पितुरादेशतस्तदा ॥ ६८॥ मौक्तिकमायसच्छायाऽलङ्कारसमलङ्कृताम् । जङ्गमामजडां स्वच्छां ताम्रपर्णीमिवाऽपराम् ॥ ६९ ॥ रवेरिवाग्रजं भाले तिलकं बिभ्रती सतीम् । निर्मार्जितमिवाऽदर्श भूपालप्रतिबिम्बने ॥ ७० ॥ . नीलोत्पलचलनेत्रां कजलोज्ज्वलकुन्तलाम् । दवदन्तीं नृपाः प्रेक्ष्य विश्रामं चक्षुषोय॑धुः ॥७१॥
_ (त्रिभिर्विशेषकम्) पुरोभूय प्रतीहारी श्रीभीमरथशासनात् । नामग्राहं महीपालानारेभे शंसितुं ततः ॥ ७२ ॥