SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ पत्रमः सर्गः। १४७ अग्रणीभेटकोटीनां कृतज्ञः प्राज्ञपुङ्गवः ॥ १६० ॥ निकपः शूरताहेम्नः शरण्यः शरणार्थिनाम् ।। उद्यानं दानदाक्षिण्यस्थैर्यधैर्यमहीरुहाम् ॥ १६१ ॥ रुक्मी नाम महीपालः पालितक्षत्रियव्रतः । परिणेतुं महानन्दात् कन्यकां तव वाञ्छति ॥१६२॥ (त्रिभिर्विशेषकम् ) चतुर्थोऽप्यप्रवीदेवं देव ! काशीपुरीश्वरः। निशाकरोज्ज्वलयशाः कल्पद्रुरनुजीविनाम् ॥ १६३ ॥ नयकन्दलिनीमेघोऽमोघगीरघहानिकृत् । दानशौण्डः प्रतापेन दुर्निरीक्षः खरांशुवत् ॥ १६४ ॥ सदा सदाचारपथप्रवीणः क्षितिनायकः । शङ्खभूमानिमां पाणिगृहीती कर्तुमीप्सति ॥ १६५ ॥ (त्रिभिर्विशेषकम् ) इतश्च पश्चमोऽप्यूचे यद्धास्तिनपुरेश्वरः। स्मररूपोपमः संख्यनियूंढप्रौढविक्रमः ॥ १६६ ॥ सालमांशुमहास्कन्धो गुणज्ञो गुणिनां घरः। अदीनशत्रुभूपालस्त्वत्कन्यां हन्त ! याचते ॥ १६७॥ (युग्मम् ) षष्ठोऽपीत्थमयोवाच देष ! काम्पील्यभूपतिः । अमेयसेनो निर्मायः शुनासीरपराक्रमः ॥ १६८ ॥ जितान्तरारिषड्वर्गो जितदुर्दान्तशात्रवः । जितशत्रुस्तव सुतां मद्वाचा याचतेतराम् ॥ १६९ ॥ (युग्मम्) श्रुत्वेदं कुम्भराजोऽपि जगादैवं कृतक्रुधः । ईदगाशापराः किं वः स्वामिनो नेह लज्जिताः॥१७०॥ त्रैलोक्यजनतारत्नं कन्यारत्नमनुत्तरम् । शरैरपि नमस्कार्य विवाहाय कथं भवेत् ॥ १७१ ।।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy