________________
१३४ मल्लिनाथमहाकाव्येबभौ देहो जगद्भर्तुनंद्योपैरिव वारिधिः ॥ २०५॥ को भवेद् जिनरूपस्य निपुणो वर्णनं प्रति । देवदेहा अपि बभुर्यत्पुरोऽङ्गारका इव ॥ २०६ ॥
अलिककलितपाणिद्वन्द्वविभ्राजमानो __ भवजलधिनिमज्जजन्तुपोतोपमस्य । जिनपरिढमल्ले: पुण्यवल्लेः स्वरूपं
विनयविनतमूर्तिवर्णयामास रूपम् ॥२०७।। इत्याचार्यश्रीविनयचन्द्रसूरिविरचिते श्रीमल्लिस्वामिचरिते महाकाव्ये विनयाङ्के च्यवनजन्मकल्याणिक
द्वितयव्यावर्णनो नाम चतुर्थः सर्गः ।।
- अहम् अथ पञ्चमः सर्गः
इतश्च वैजयन्ताख्यविमानात् स परिच्युतः। जीवोऽचलस्य साकेते प्रतिबुद्धिपोऽजनि ॥१॥ कामो वयसि पीयूषं यो वचसि महीयसि । गीष्पतिः सदसि त्वष्टा महसि क्षात्रसंम्भवे ॥२॥ देवी पद्मावती तस्य पद्मा पद्मापतेरिव । निश्छद्मसद्म निःशेषगुणानामनणीयसाम् ॥३॥ इतश्च तस्मिन्नगरे गरीयो नागवेश्मनि । ईशान्यां दिशि नागानां प्रतिमाश्चिन्तितप्रदाः ॥ ४ ॥ आनचुस्ताः प्रतिदिनं नागरा भक्तिसागराः।। उपयाचितसन्ताने सम्पूर्ण सति सर्वदा ॥ ५ ॥ आपृच्छय क्षितिपं तासां यात्रायै हर्षिताशया । अगात पद्मावती देवी नागदैवतवेश्मनि ॥ ६॥ प्रतिबुद्धिर्महीपालः सशृङ्गारोऽसमः श्रिया।