SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ११९ . चतुर्थः सर्गः। कुम्भभूवैरिगाब्धेः कुम्भः कीर्तिसुधाम्भसः। तत्राभूद् भूपतिः कुम्भः कामकुम्भ इवार्थिनाम् ॥११॥ सश्रीके यस्य खड्गान्धौ शङ्खशीतांशुपुष्करे । कीर्तयः प्रत्यनीकानां निपेतुर्निम्नगा इव ॥ १२ ॥ भ्रमन्त्याः शेषकैलासविधुव्याजाद् जगत्त्रये । यत्कीर्तेश्चण्डिकाकान्तेर्वाऽसुकः स्थानभूरभूत् ॥ १३ ॥ यत्खड्गः समितौ स्वर्गिमुक्तामुभयतः स्रजम् । समासाद्य दधौ कक्षान्वितदन्ताबलश्रियम् ॥ १४ ॥ वक्त्रप्रभापराभूतपार्वणेन्दुः प्रभावती । सतीमतल्लिका तस्य जज्ञे देवी प्रभावती ॥ १५॥ तस्याः शीलमनश्लीलं लोकंमीणा गुणा अपि । रूपं सुरूपमुर्वश्याः वाचोऽपि च सुधामुचः ॥ १६ ॥ सुविस्तीर्णनितम्बश्रीर्या चचार शनैः शनैः।। मत्पतेधृतभूपीठभारो मा भूद् महानिति ॥ १७ ॥ बुभुजे कुम्भभूपालो भोगसौख्यं तया समम् । लक्ष्म्येव लक्ष्मीरमणः शच्येव च शचीपतिः॥१८॥ इतो महाबलस्याथ जीवः पूर्णनिजस्थितिः। प्रच्युत्याऽच्युतसत्कर्मा वैजयन्तविमानतः ॥ १९॥ अश्वयुक्संस्थिते चन्द्रे क्रूरग्रहविवर्जिते । फाल्गुनश्वेतचतुर्थ्या दिवसे विजयाभिधे ॥ २० ॥ श्रीमत्कुम्भनृपागारे देव्याः कुक्षाववातरत् । कन्दरायां सुवर्णाद्रेः कल्पोपपदशाखिवत् ॥ २१ ॥ .... (त्रिभिर्विशेषकम् ) तदावतारयामिन्यां सुखसुप्ता महासती। वीक्षाश्चक्रे क्रमादेतान् महास्वमान् प्रभावती ॥ २२॥ गोक्षीरधारागौराङ्गः ककुमान् मदमेदुरः । उन्नदन् मधुरध्वानमानन्दं मोद्विरभिव ॥ २३॥
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy