SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ १०२ मल्लिनाथमहाकाव्ये आज्यैः प्राज्यैः प्रपूर्यन्तां महावाप्यः पदे पदे । . वररूपैः सुचित्राढ्यमण्डपा अपि वेश्मनाम् ॥ ५१ ॥ भवितव्यताप्रभृतिः सर्वः सुवासिनीजनः । पर्पटादिकृते भूयात् कलोलुलुस्वरोत्तरम् ॥५२॥ लेख्यन्तां गोत्रिणां लेखा विवाहाऽहोनिवेदिनः। कुङ्कुमैः क्षुल्लकभवग्रहणाभिधलेखकैः ॥ ५३॥ अथ संप्रेषितो राज्ञा मन्त्री प्राप्य पुरं निजम् । विवाहप्रगुणः स्वामिन् ! जज्ञेऽनन्तवनस्पतिः ॥५४॥ उन्मार्गदेशकाभिख्या वराकृष्टिविधायिनः । संसारपत्तनं प्रापुर्वनस्पतिनिदेशतः ॥ ५५ ॥ प्रवेशिता महोत्साहपूर्वकं कर्मभूभुजा । नृत्वाऽभिधानमावासमास्थिताः समदेक्षणाः ॥ ५६ ।। मर्मोद्घट्टनया वध्वा कृतस्नानमहोत्सवाः । क्षारम्पकृता नीता दुर्वाक्रसवतीगृहे ॥ ५७॥ विन्यस्तमत्सरस्थाला अनार्याचरणादिकाः । द्राक् परिवेषयामासुः कुरङ्गार्भकलोचनाः ॥५८ ॥ भोजनान्ते नृपस्यान्ते संस्थायोन्मार्गदेशिनः । अमुमामन्त्रयामासुः करग्रहणपर्वणि ॥ ५९॥ .. वस्त्रायैस्तान् स संपूज्य जन्ययात्राकृतोद्यमः । खावासान् दापयामास निधत्तस्तम्भवेश्मनि ॥ ६ ॥ अभिगृहीतप्रभृतिभ्रातरः पञ्च दुर्जयाः । तत्राऽऽगच्छन् सशृङ्गारा भ्रातृव्यकरमङ्गले ॥६१॥ द्वादशारकनामानः कालसङ्गतिसोदराः । उपाजग्मुर्गृहीत्वोचैर्मातृशालाविधिक्षणम् ॥ ६२ ॥ रतिप्रियरतिप्रीतिगीयमानोरुमङ्गलः । वरो भव्येतरोऽचारीद् रजःकालीकृताम्बरः ॥६३।। आपतन्तं वरं श्रुत्वा वनस्पतिमहीपतिः। .........
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy