SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः । साम्यसौम्येऽक्षिणी नासा सन्तोषो विनयो मुखम् ॥१७॥ प्रिय-सत्ये श्रुती भालं सम्यक्त्वं वासना शिरः । तदाज्ञा चारुधम्मिलः प्रबोधः श्मश्रु सुन्दरम् ॥ ९८ ।। इत्यङ्गैस्त्रिषु लोकेषु धर्मनामा प्रतिष्ठितः । योऽयं राजास्ति तस्यान्तरात्मा जीवदयाभिधः ॥ ९९॥ (कलापकम् ) कुमार ! तदिय कार्या विशेषेण त्वयाऽधुना । ततो हृष्टः समित्रोऽपि भीमः सम्यक्त्वमाश्रयत् ॥ १०० ॥ तथा निरपराधानां जीवानां वधकर्मणि । यावज्जीवं नितिं च मृगयादौ तु सर्वथा ॥ १०१ ॥ ततो हृष्टेन गुरुणा भीमो नववयस्त्वतः । प्रतिपन्नव्रतस्थैर्य कर्तु प्रत्युपछंहितः ॥१०२।। अहो ! धन्यतमः कोऽन्यः कुमार ! भवता समः । नवे वयसि यस्यैवं पुराणवयसो मतिः ॥ १०३ ।। यत उच्यतेपूर्व मनः ततः कायं सतामालिङ्गते जरा । असतां च पुनः कायं कालेनापि न मानसम् ॥ १०४ ॥ रम्यो द्राक्षेत्र कोऽप्यन्तरिन्द्रवारणवत् परः। बहिः संपूर्णभाग्यस्तु द्विधापि सहकारवत् ।। १०५ ॥ गतापराधजीवानामपि हिंसानिषेधतः । कथ्यते ह्युत्तमा लेश्या तत्रोदाहरणं शृणु ॥ १०६ ॥ तथाहिवैरिग्रामविघाताय केपि षद् पुरुषाः पुरा । चलिताः समुदायेन तेष्वेक इदमब्रवीत् ॥१०७ ॥ सर्व हन्तव्यमेवात्र द्विपदं वा चतुष्पदम् । अन्यः प्राह मनुष्याणां वधोऽस्तु पशुभिः किमु ? ॥१०८॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy