SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ७० श्रीपवनाथचरितेइयं च श्रीस्त वायत्ता यद्विभाति कुरुष्व तत् ॥ ८७२ ॥ ततः स विहितस्नानः कल्पपुस्तकवाचनः । सिद्धालयस्थप्रतिमाः स्तुत्वाऽऽस्थानीमशिश्रियत् ॥८७३॥ देवदेवीगणैरेवं विहिते मङ्गलक्रमे । संगीताऽमृतमनात्मा दिव्यभोगानभुक्त सः ॥ ८७४ ॥ वरुणा करिणी सापि तपस्तेपे सुदुस्तपम् । तथा यथा विपद्याभूद् देवी कल्पे द्वितीयके ॥ ८७५ ॥ स कोऽपि देवो नैवाभूदीशाने यन्मनस्तया । न ह्यहारि मनोहारिरूपलावण्यसंपदा ॥ ८७६ ॥ देवे कापि मनश्चक्रे न मनागपि सा पुनः । गजेन्द्रजीवदेवस्य संगमध्यानतत्परा ॥ ८७७ ॥ गजेन्द्रजीवदेवोऽपि यस्यामत्यनुरागवान् । रक्तां तां चावात्वा सहस्रारमुपानयत् ।। ८७८ ॥ चक्रे स देवो देवी तामन्तःपुरशिरोमणिम् । पूर्वजन्माभिसंवद्धः स्नेहो हि बलवत्तरः ॥ ८७९ ॥ नन्दीश्वरे शाश्वताहत्पतिमानां महार्चनैः । संगीतेन पुरस्तासां मुनीनां पर्युपासनैः ॥ ८८० ॥ कदाचिन्नन्दनोद्यानदीर्घिकाजलकेलिभिः। कदाचिद् गीतवादित्रनित्योत्सवमहारसैः।। ८८१ ॥ खच्छन्दक्रीडया तत्र सुखं वैषयिकं परम् । भुञ्जानोऽगमयत्कालं स गजेन्द्रसुरो दिवि ॥ ८८२ ॥ कालेन कियता सोऽपि कुर्कुटाहिर्विपन्नवान् । नारकोऽभूत् सप्तदशार्णवायुः पश्चमावनौ ।। ८८३ ॥ पश्चमावनियोग्याश्च वेदना विविधाः सदा । सोऽन्वभूत् कमठजीवो विश्रान्ति नाप जातुचित् ॥८८४॥ दानादिपान् निखिलजन्तुगुरुः प्रधान१ दानादयः पादा यस्य सः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy