________________
प्रथमः सर्गः । तचित्रं यनिरालम्ब चिरं भ्रान्तं भवार्णवे । त्वां चालम्ब्य मनो मेऽद्य शमनीरे ममज्ज यत् ॥६५५।। धर्मकोशाद् धनं दत्ते सेवकेभ्यः प्रभुर्भवान् । प्रसन्नः समतावस्तु कस्मैचन पुनर्निजम् ॥ ६५६ ॥ इति स्तुत्वा जगन्नाथमुत्थाय पुलकाश्चितः । आनन्दजलपूर्णाक्षो विज्ञप्तिं कृतवानिमाम् ॥ ६५७ ॥ तथा मम जगन्नाथ ! प्रसीद नतवत्सल !। यथा क्षणमपि स्वामिन्नवोत्तरसि चेतसः ।। ६५८ ॥ सर्वोऽपि वदति श्राद्धो यत् त्वं मे नाथ जीवितम् । नाहं तु जीवितं येन चलं मे त्वं तु निश्चलः ॥ ६५९ ॥ न कुले न बले रूपे न च न श्रीषु ते विभोः। यत् किंचिद् वीतरागत्वं तत्र लीनं मनो मम ।। ६६० ।। नानानामानि संकल्प्य विवदन्तां विचक्षणाः । मन्दमेधास्त्वहं नाथ ! नीरागत्वे तव स्थितः ॥६६१॥ विकल्पकल्पनालोलकल्लोलैर्नाथ ! रक्ष मे । धूयमानं मनःपोतं यत् तरामि भवाम्बुधिम् ।।६६२।। वपुः शस्तं प्रसन्ना दृग् जन्तुरक्षाकरं वचः । अतस्त्वयि कथं नाथ ! सतां न रमते मनः ॥६६३।। भ्रमन्तुं भावाः प्रस्तावादितरे तारका इव । सर्वज्ञ ! तव तत्वाद्रौ ध्रुवीयति मनस्तु मे ॥६६४॥ अलं परिग्रहै रम्यैरपि क्लेशकरैः प्रभो !। सदानन्दमयं देहि भावदेव ! प्रियं पदम् ॥६६५।। इति कृत्यपरो नित्यं निर्वाह्य बहुवासरान् । वार्धकं प्राप तारुण्यवनीदहनपावकम् ॥६६६।। पालितस्यातियत्नेन लालितस्य महासुखैः । स्वदेहस्यापि वैगुण्यं भृशं वीक्ष्य विषादितः ॥६६७॥ विहाय तृणवद् राज्यं समस्तविरतिव्रतम् ।