________________
प्रथमः सर्गः। .
वृद्धिमायोति सद्धर्मः स्तोकोऽपि वटबीजवत् । परं कृपणवत् कोऽपि न ग्रन्थफलमश्नुते ॥६०८॥ निसर्मरुचिमुख्याश्च कथ्यन्ते दशधा श्रुते । तारतम्यविभागेन सर्वे सम्यक्त्वधारिणः ॥६०९॥ तथाहिद्रव्यक्षेत्रादिभावा ये जिनैः ख्यातास्तथैव यः । श्रद्धत्ते स्वयमेवैतान् स निसर्गरुचिः स्मृतः ॥६१०॥ यः परेणोपदिष्टांस्तु च्छद्मस्थेन जिनेन वा । तानेव मन्यते भावानुपदेशरुचिः स वै ॥६११।। रागो द्वेषश्च मोहश्च यस्याऽज्ञानं क्षयं गतम् । तस्याज्ञायां रुचिं कुर्वनिहाज्ञारुचिरिष्यते ॥६१२॥ अधीयानः श्रुतं तेन सम्यक्त्वमवगाहते । अङ्गाऽनङ्गप्रविष्टेन यः स सूत्ररुचिः स्मृतः ॥६१३॥ स बीजरुचिरासाद्य पदमेकमनेकधा । योऽध्यापयति सम्यक्त्वे तैलबिन्दुमिवोदके ॥६१४॥ श्रीसर्वज्ञागमो येन दृष्टः स्पष्टार्थतोऽखिलः । आगमज्ञैरभिगमरुचिरेषोऽभिधीयते ॥५१५॥ द्रव्याणां निखिला भावाः प्रमाणैरखिलैर्नयैः । उपलम्भं गता यस्य स विस्ताररुचिर्मतः ।।५१६॥ ज्ञानदर्शनचारित्रतपःसमितिगुतिषु । यः क्रियासु रतो नित्यं स विज्ञेयः क्रियारुचिः॥६१७॥ आज्ञाप्रवचने जैने कुदृष्टावनभिग्रहः । यः स्याद् भद्रकभावेन तं संक्षेपरुचिं विदुः ॥६१८॥ यो धर्म श्रुतचारित्राऽस्तिकायविषयं खलु । श्रद्दधाति जिनाख्यातं स धर्मरुचिरिष्यते ॥६१९॥ इत्येवं सर्वभेदानां मानसं मूलकारणम् । १ बन्धनं धनफलं च।