SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ ( २ ) दवाप्तं तर्काधेर्विबुधपतिसिद्धेश महितम् । थदीयं वाग्ब्रह्माऽमृतमकृत दर्पज्वरभरप्रशान्तिं निःशेषक्षितिवलयवादीन्द्रमनसाम् ॥ १० ॥ तस्मादभूत् संयमराज्यनेता मुनीश्वरः श्रीजिनदेवसूरिः । यो धर्ममारोप्य गुणे विशुद्ध ध्यानेषुणा मोहरिपुं बिभेद ॥ ११ ॥ नामक्रमेणैवं प्रसर्पति गुरुक्रमे । पुनः श्रीजिनदेवाssख्या बभूवुर्वरसूरयः ॥ १२ ॥ येषां पादारविन्दानरुणनखशिखारागभूयोऽभिरज्यलक्ष्मीलीला निवासान्विमलगुणभृतो भेजिरे राजहंसाः । आकृष्टानेकलोकभ्रमरकृतनमस्कारझङ्काररम्यो . येषामद्यापि लोके स्फुरति परिमलोऽसौ यशोनामधेयः ॥ १३॥ तेषां विनेयविनयी बहु भावदेव सूरिः प्रसन्नजिनेदवगुरुप्रसादात् । श्रीपत्तनाssख्यनगरे रविविश्व ( १३१२ ) वर्षे पार्श्वप्रभोश्वरितरत्नमिदं ततान ॥ १४ ॥ अतः स्पष्टमेवाऽवसीयते यत्, ते कालिकाचार्यकुलतिलकाः श्रीभावदेवसूरयस्त्रयोदश- चतुर्दशशताब्दीमध्यकालिका एवेति । एतच्चरितावले | कनेनैव चैतेषां वैयाकरणचणभूषणत्वम्, कविकुलगुरुत्वम्, लौकिकशास्त्रावलोकन रसिकत्वम्, सामुद्रिकशास्त्रसिद्धमुद्रत्वम्, चिकित्सारहस्याभिज्ञातृत्वम् श्रीजिनागमपारगामित्वं चावगम्यते सुधीभिः । निर्वर्णितं चात्र चरिते, संसारासाराऽऽरम्भरम्भातरुमूलोन्मूलने दुर्वारवारणत्वमाबिभ्रतः, विषमाऽकृशशमनाय मानकोधकृशानुशमने प्रचुरपानीयतां समादधतः, दुर्वहाऽहङ्कारहुङ्कार हिमालय हिमानीनिकरद्रवणे संतप्तसप्तसप्तित्वमनुसरतः, गहना मेयमायावंशवंशघटा विघटने खरतरधाराधर परशुत्वमाश्रयतः दुःक्षोभलोभाऽपारावारपारपानीयप्रशोषणे ज्वलज्ज्वालवडवानलतामाकलयतः, स्वकीय सर्वसहत्वेन सर्वसहां सर्वसहामपि जडीकुर्वाणस्यं, संत्रम्भ्रम्य प्रवासिन इव विचित्रचित्र चरित्रा "
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy