________________
प्रथमः सर्गः ।
४५ तत् पुनः प्राप्यते देववीतरागप्रसादतः ॥५५६॥ यादृक् संसेव्यते स्वामी लेश्या भवति तादृशी । वीतरागे ह्यऽतो नाथे नीरागं जायते मनः ॥५५७।। स्वपरोत्तारणे काष्ठयानतुल्यो भवाम्बुधौ । संविग्नः स्याद् गुरुर्धारः सदा सदुपदेशकः ॥५५८।। अन्तःपरिग्रहो रागो बहिस्त्वऽनुचितोपधिः । स द्विधाऽप्युज्झितो येन स महात्मा गुरुर्गुरुः ॥५५१।। लोकेऽपि वन्द्यते त्यक्तवहिरन्तःपरिग्रहः । अत्र निस्तुषरागाणामक्षतानां निदर्शनम् ।।५६०॥ अश्रीदोऽपि गुरुः सेव्यश्चित्तक्लेशोपशान्तये । अफलोऽपि तरुस्तापं हरते मार्गयागिनाम् ॥५६१॥ धर्मतत्त्वं त्विदं ज्ञेयं भुवनत्रयसम्मतम् । यद् दया सर्वभूतेषु त्रसेषु स्थावरेषु च ।।४६२।। मूलमन्त्रं विना सिद्धिर्मालामन्त्रेण नो यथा । भूयोभिरपि नो कृच्छ्रेस्तथा धर्मो दयां विना ॥५६३।। तद् ध्येयं मनसा तच वाच्यं वाचा मनीषिभिः । चेष्टितव्यं तदङ्गेन येन कोऽपि न पीड्यते ॥५६४॥ यथाऽऽत्मनः प्रियं वाञ्छेत् ततः कुर्वीत तत् परे । बुभुक्षुः शालिधान्यं यः क्षेत्रेऽपि वपते स तत् ॥५६५॥ अहिंसैव परो धर्मः शेषस्तु व्रतविस्तरः। अस्यैव परिरक्षायै, पादपस्य यथा वृति': ॥५६६॥ इति तत्त्वत्रयीरूपं शमप्रमुखलक्षणैः । लक्षितं पञ्चभिधर्मस्थैर्याधैर्भूषितं पुनः ॥५६७॥ सम्यक्त्वरत्नं यत्नेन धार्य चित्तकरण्डके । रक्ष्यं शङ्कादिचौरेभ्यः सहगामि भवाऽन्तरे ॥५६८॥ इतरोऽपीह नो मन्त्रो नृणां सिद्ध्यति शङ्कया । १ वाटी, इ त्यर्थः ।