________________
४६७
अष्टमः सर्गः। यथाऽवस्थितमाचख्यौ ततो मेऽजनि कौतुकम् ॥ २९३ ॥ अशोकादवतीर्याऽऽशु तदधास्थं मुनीश्वरम् । भक्त्या ननाम तेनाऽपि स्पृष्टोऽहं मृदु पाणिना ।। २९४॥ ततो मयाऽतिहृष्टेन पृष्टः प्राच्यभवं निजम् । मुनिरूचे भव्यजीवः श्रावस्त्यां त्वं पुराऽभवः ॥ २९५ ॥ व्रतमादाय वैराग्यात् समायं च विधाय तत् । विपद्य व्यन्तरो भूत्वा शुको जातोऽसि सम्प्रति ॥ २९६॥ तत् श्रुत्वा पृष्टवान् जातजातिस्मृतिरहं मुनिम् । नाऽधुनाऽहं प्रभो ! योग्यस्त्वत्सेवाया व्रतस्य च ॥२९७।। ततः कृत्वा प्रसादं मे तत् तीर्थ किश्चिदादिश । यत्र गत्वा निजं कायं व्युत्सृजामि समाधिना ॥२९८॥ साधुः प्राहाऽपरं तीर्थ शत्रुञ्जयसमं नहि । सिद्धाः श्रीपुण्डरीकाद्याः साधवो यत्र कोटिशः ॥२९९।। यदध्यासितमर्हद्भिरसंख्यातैमुनीश्वरैः । सिद्धानां विदधे यत्र महिमाऽनेकशः सुरैः ॥३०॥
(युग्मम् ) युगादिजिनसंपर्कात् नवरं स गिरिष्वयम् ।. विमलाऽऽख्यां दधौ कुर्याद् विमलं जगदप्यसौ ॥३०१॥ तत्र दानं तपो ध्यानं तन्वपि श्रद्धया कृतम् ।। स्यात् कालकरणं चाऽपि विशिष्टफलसाधकम् ॥३०२॥ एवमेव मृताः पायो यत्र शत्रुञ्जयेऽङ्गिनः। गच्छन्ति सुगति तस्य माहात्म्यं किमु वर्ण्यते ? ॥३०३॥ मयोक्तं तर्हि तत्रैव तीर्थेऽनशनमाश्रये । मुनिर्जगाद निर्विघ्नं वाञ्छितं तव सिध्यतु ॥३०४॥ ततो मया भवेऽन्यस्मिन् इहाऽपि तव विप्रियम् । यत् कृतं तस्य मिथ्या दुष्कृतं दातुमिहाऽऽगमम् ॥३०५॥ १ सकपटम् । २ मरणम् ।