________________
४५६ श्रीपार्श्वनाथचरिते
अथैका वीरमत्याख्या तत्रत्यश्रेष्ठिनः सुता। विधवा सिंहलाऽऽख्येन मालिकेन सहाऽगमत् ॥१५२॥ दैवात् तदिन एवाऽगाद् योगात्माऽप्यन्यतः कचित् । गता वीरमती काऽपीत्यभूद् वार्ताऽखिले पुरे ॥१५३॥ त्वयोचे सा ययौ योगात्मना साध न संशयः । तच्छ्रुत्वाऽभूज नो योगात्मनि धर्मेऽप्यनादरः ॥१५४॥ इत्थं निकाचितं कर्म कृत्वा मृत्वा क्रमादभूः । एडको जम्बुको वेश्यासुतस्तुर्ये भवे पुनः ॥ १५५ ॥ मुखरोगान्मृतः सर्वभवेष्वासीद् द्विजोऽधुना । अतस्ते कर्मणस्तस्य शेषमद्याऽपि तिष्ठति ॥ १५६ ॥ तन्निशम्य समुत्पन्नभिया सुगुरुसन्निधौ । मयतज्जगृहे भद्र ! परिव्राजकदर्शनम् ॥ १५७ ॥ भक्तत्वान्मे गुरुः प्रान्ते ददौ विद्यां खगामिनीम् । तालोद्घाटनिकां चापि यत्नान्मां चेत्यशिक्षयत् ॥१५८॥ इमे विद्ये त्वया धर्म-देहरक्षां विनाऽन्यतः । न प्रयोज्ये मृषावाक्यं वर्जनीयं च सर्वथा ॥ १५९ ॥ प्रमादाच्चेन्मृषोक्तं स्यानाभिदघ्ने तदाऽम्भसि । प्रविश्योर्श्वभुजोऽष्टाग्रसहस्रं विद्ययोर्जपेः ॥ १६० ॥ सम्यग् दत्त्वेति मे शिक्षा परलोकं गतो गुरुः । पापोऽहं व्यसनासक्तस्तत् सर्व चकराऽन्यथा ॥ १६१ ॥ वो दिने च वने स्त्रीभिः पृष्टो वैराग्यकारणम् । पत्नीमृत्युमभाषिषं प्रायश्चित्तं च न व्यधाम् ॥ १६२ ॥ कृत्वाऽद्य चौरिकां रात्रौ व्रजन्नारक्षकैरहम् । धृतः खगामिनीविद्या नास्फुरत् तत् कुरूचितम् ॥ १६३ ।। मन्त्र्यूचे किं न सम्प्राप्त एको रनकरण्डकः । स स्माऽह दैवतो ज्ञात्वा पथिकः कोऽप्यपाहरत् ॥१६४ ॥