________________
श्री पार्श्वनाथ चरिते
त्सर्पद्भोगलतावितानममलं भेजे तथा मूर्धनि । येनाsयाऽपि तदाश्रितं जगदपि प्रीतिं परामश्नुते सोऽव्याद् वः शुभभावदेवविनतः श्रीपार्श्वनाथः प्रभुः ॥ ८३६ ॥ इति श्रीकालिकाचार्य संतानीय श्रीभावदेवसूरिविरचिते श्रीपार्श्वनाथचरिते महाकाव्येऽष्टसर्गे भावाङ्के भगवद्गणधर देशना शासनदेवतावर्णनो नाम सप्तमः सर्गः ॥ ७ ॥
४४४
अर्हम् ।
अथाष्टमः सर्गः ।
शश्वद् विश्वत्रयस्वामी विश्वानुग्रहहेतवे । विहरन्नन्यदा पुण्डदेशे तत्सुकृतैरगात् || १ || इतश्च पूर्वदेशेऽभूत् ताम्रलिप्त्यां तदा पुरि । सुधीः सागरदत्ताऽऽख्यः सार्थवाहसुतो युवा ॥ २॥ स तु प्राच्यभवे विप्रः पत्न्याऽन्याऽऽसक्तया विषम् । दरवाज्ञो वहिः क्षिप्तो गोकुलिन्या च जीवितः ॥ ३ ॥ परिवाद् भूत्वा मृत्वा च तत्र श्रेष्ठिसुतोऽभवत् । जातजातिस्मृतिश्चैष विरक्तः स्त्रीषु सर्वथा ॥ ४ ॥ लोकधर्मरता मृत्वा मोकुलिन्यप्यऽभूत् सुता । तत्रैवेभ्यस्य रूपाढ्या स तां स्निग्धदृशेक्षते ॥ ५ ॥ तज् ज्ञात्वा साग़रार्थे सा वृता लब्धा च बन्धुभिः । तस्यामपि पुनस्तस्य रता दृष्टिर्मनस्तु न ।। ६ ।। स स्त्रीः शस्त्रीरिवाऽमंस्त भिया हि प्राग्भवं स्मरन् । साऽथ पत्रे लिखित्वेमं श्लोकं मैषीदखिन्नधीः ॥ ७ ॥ कुलीनामनुरक्तां च किं स्त्रीं त्यजसि कोविंद ! १ । १ मूर्छितः । २ संन्यासी |