________________
सप्तमः सर्गः।
४४१ अथ संपूर्य बोहित्थं रत्नैः स्तोकदिनैरपि । चारुः कृतार्थः स्वस्थानं प्रति गन्तुमना अभूत् ।।७९८॥ हे ! वयस्याः ! कृतार्थाश्चेत् स्वस्थानं गम्यते तदा। इति त्रीनपि योग्यादीन् चारुराकारयत् सह ॥७९९।। तत् तेषु चारुरत्नानि वीक्ष्य तादृगुपार्जनैः । जातश्रद्धोधिकं योग्यः सदैन्यमिदमूचिवान् ।।८००॥ रत्नद्वीपमपि प्राप्य जानताऽपि मया सखे !। तथाविधानि रत्नानि नार्जितानि प्रमादतः ॥८.१॥ ततो मित्र ! प्रतीक्षस्व यथाऽहमपि सम्प्रति । साररत्नानि संगृह्य कृतार्थस्त्वां व्रजाम्यनु ॥८०२॥ हितज्ञोऽपि निजं काच-गवलादिकमर्जितम् । अदर्शयद् ऋजुत्वेन चारोः सोऽथ तमब्रवीत् ॥८०३।। न स्युरेतानि रत्नानि धूतॆस्त्वं मुग्ध ! वश्चितः । त्यक्त्वैतानि तदद्याऽपि यत्नं रत्नार्जने कुरु ।।८०४॥ ततोऽसौ चारुमम्यर्च्य गुण-दोषपरीक्षणम् । शिक्षयित्वा क्रमाज्जज्ञे सम्यग् रत्नपरीक्षकः ॥ ८०५ ॥ काननाऽऽलोकचित्राचं त्यक्त्वा धृतैश्च सङ्गतिम् । शनै रत्नानि संगृह्य हितज्ञोऽपि तमन्वगात् ।। ८०६ ॥ मूढस्तु चारुणा प्रोक्तो दुष्टोत्तरमिवाऽवदत् । न शम्बलमपि भ्रातरास्ति मे करवै किमु ? ।। ८०७॥ चारुणाऽभाणि ते नीवीमर्पयिष्ये, कुसङ्गतिम् । विहाय कुरु वाणिज्यं नेष्यामस्त्वां प्रपाल्य भोः !॥८०८॥ सर्वोऽपि कृत्रिमस्नेहं धत्ते स्वीयोऽत्र कोऽपि न । तस्मादविघटं स्थानं स्वीयमेव हि गम्यते ॥ ८०९ ॥ मूढः स्माऽऽह महाभाग ! यत्रैव मनसो रतिः । तदेव स्थानकं स्वीयं नैवाऽन्यदिति मे मतिः ।। ८१० ॥ १ प्रवहणम् । २ मूलधनम् ।