SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः। ४३९ वजाहत इवासीच तद्वचःश्रवणात् पुनः ॥ ७७२ ।। इत्थं विडम्बनापायं गृहस्थत्वं तयोरभूत् । एककर्णस्थताङ्कमुखदर्शनसन्निभम् ।।७७३।। भूयोभिरपि सा यावत् प्रकारैस्ताडिता सती । न याति स्नेहबद्धत्वात् तावदेष व्यचिन्तयत् ।। ७७४ ॥ कपिकच्छूर्भुवं मेऽसौ जीवतो नाऽपयास्यति । तथा कुर्वे यथा जन्मान्तरेऽप्येषा न मे भवेत् ।। ७७५ ॥ अन्यदा कामुकं तीर्थ श्रुत्वा पूर्णाभिधे गिरौ । जगाम तत्र सर्वस्वं विहाय मरणोन्मुखः ॥ ७७६ ॥ ममाऽहो ! जन्मनि कापि रुद्रा मा भूत् पुनः प्रिया । इत्यसौ कामनां कृत्वा खं मुमोच शिलातलात् ॥७७७॥ तदेकध्याना रुद्रापि तद् विदित्वा कुतोऽपि हि । द्रुतं जगाम तत्रैव विलम्ब सोदुमक्षमा ।। ७७८ ।। भवान्तरेऽपि मे भर्ता सोमो भवतु सर्वदा । इत्युदित्वाऽपतत् साऽपि विपन्नौ तावुभावपि ॥ ७७९ ॥ तस्य तीर्थाधिदेवस्य संदेहे पतितं मनः । तदयाचनया देवः सेवितः स्यान्महाफलः ।। ७८० ॥ विशेषेण जिनेन्द्रस्य धर्म-मोक्षार्थिभिनेरैः । पूजां कृत्वा न कर्तव्याऽऽशंसा साऽल्पफला यतः ॥७८१॥ इत्यादिसुकृतैः पुंसां गृहिधर्मोऽपि मुक्तये । क्रमात् स्यात् किन्तु तत्रापि कोऽप्यलं कर्मलाघवात् ॥७८२॥ यतित्वं गृहधर्मित्वं तावदास्तामिदं द्वयम् । धर्मश्रद्धानधन्यत्वमपि पुंसां सुदुर्लभम् ॥ ७८३ ॥ प्राप्याऽपि शस्यमानुष्यरत्नद्वीपं भवोदधौ । मूढवद् धारयन्त्येके मूलद्रव्यमपि स्फुटम् ॥ ७८४ ॥ १ कर्णभूषणम् । २ समर्थः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy