SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ४१६ श्रीपार्श्वनाथचरिते पित्राऽपि परितुष्टेन पटलीप्रमुखोऽखिलः। उक्तो व्यतिकरस्तस्य न पुनर्जनकादिकः ॥ ४६९ ॥ कुमारः प्राह यैषाऽद्याऽऽनिन्ये नारी मया पितः !। वानर्या बहिराख्याता सा जन्मजननी मम ॥ ४७० ॥ पृष्टेन मुनिनाऽप्येवमाख्यायाऽभागि यत् तव । सविशेषमिदं हेमपुरे ख्यास्यति केवली ॥ ४७१ ॥ भगवन्तं ततो गत्वा पृच्छामस्तात ! तत्र तम् । यथा त्रुटति संदेहो जीर्णतन्तुरिव क्षणात् ।। ४७२ ।। इत्युक्त्वा जननी-तातसहितः प्रस्थितस्ततः । असौ हेमपुरे पादमूले केवलिनो ययौ ॥ ४७३ ॥ . नत्वा तस्य मुनेः पादौ मूरो विद्याधरेश्वरः। निविष्टः सपरीवारः कुमारश्वाऽवनीतले ॥ ४७४ ॥ नारीसहस्रमध्यस्था राज्ञी च जयसुन्दरी । सहिता निजपुत्रेण शृणोति गुरुभाषितम् ॥ ४७५ ॥ तथा हेमपुराधीशो राजा हेमप्रभोऽपि हि । तत्र पौरजनैः सार्धमुपविष्टो गुरोः पुरः ॥ ४७६ ॥ लब्ध्वाऽवसरमप्राक्षीद् नत्वा केवलिनं नृपः। मम भार्या विभो ! केनाऽपहृता जयसुन्दरी ? ॥ ४७७ ॥ केवली प्राह राजेन्द्र ! निजपुत्रेण सा हृता । राजाऽपि विस्मितः स्माऽऽह प्रभो ! तस्याः कुतः सुतः?॥ य आसीत् तनयस्तस्या बाल एव स पापिना । दैवेन कवलीचक्रे द्वितीयो नास्ति तत्सुतः ॥ ४७९ ॥ तवाऽलीकं वचो नैव नास्ति तस्याः पुनः सुतः । संशयो मामयं शत्रुरिव सन्तापयत्यलम् ॥ ४८० ॥ मुनिर्वदति सत्येऽस्मिन् वाक्ये मा संशयं कृथाः। नृपोऽवादीद् मुने ! तर्हि परमार्थो निवेद्यताम् ॥ ४८१ ॥ कुलदेव्यादिवृत्तान्तः सर्वोऽपि मुनिनोदितः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy