SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः। ३९७ ततः शीघ्रं तलारक्षः प्रेषितोऽगात तदन्तिके ॥२२६॥ अरेऽस्माकं पुरे कर्तुं लभ्यते नाऽसमञ्जसम् । तेनेत्युक्तो कुमारोऽपि कुपितो गाढमब्रवीत् ॥ २२७ ।। रे ! यस्य बलमत्राऽस्ति गत्वा तस्याशु कथ्यताम् । ततो रुष्टस्तलारक्षः प्रजहार शरादिभिः ॥ २२८ ।। भल्ली-वावल्लशल्यानां वरसेनः शतानपि । लकुटेनैव चिक्षेप योगी ध्यानेन दोषवत् ॥ २२९ ॥ स भूपपहितानेकभटक्षिप्तशरबजे । परितस्थे बभौ कामं परिवेष इवार्यमा ॥ २३० ॥ यो यस्तीव्रतराटोपो युद्धाय तमुपस्थितः । अपवाद इवोत्सर्ग तं तमेष निषिद्धवान् ।। २३१ ।। अन्येऽपि मन्त्रि-सामन्ता नाकामंस्तं कथञ्चन । दण्डेन भ्राम्यता जातचक्रभ्रमभयादिव ।। २३२ ॥ कौतुकादथ भूपालस्तत्रागात् सपरिच्छदः । प्रवेशोऽस्ति तिलस्याऽपि न यत्र प्रेक्षकैर्जनः ॥२३३ ॥ नृपं दृष्ट्वा विशेषेण लकुटं भ्रमयंस्तथा । स खरी ताडयामास रारटीति स्म सा यथा ।। २३४॥ तदा लोकोऽब्रवीदेवं अहो ! साम्यं बलद्वये । राजैकत्रेभमारूढः खरीमेको नरोऽन्यतः ।। २३५ ।। संमुखं च चलनेष पार्थिवेनोपलक्षितः। गजाच्च सहसोत्तीर्याऽऽलिङ्गितः स्नेहनिर्भरम् ।। २३६ ॥ कुमारेणोदितं भ्रातः ! प्रतीक्षस्व क्षणं यथा । कौतुकं पूरये बाह्वोः खरीमाहत्य कर्कशम् ॥ २३७ ॥ बभाष भूपतिर्वत्स ! किमेतदिति सोऽपि तम् । वृत्तान्तं कथयित्वा तां पथि स्थाणावबन्धयत् ॥ २३८ ॥ स्वयं च द्विरदारूढः समं राज्ञाऽविशत् पुरम् । . १ मण्डले। २ कीलके।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy