________________
श्रीपार्श्वनाथचरिते
पुनर्भाग्यवतां संपद्, विपदायाति पापिनाम् ॥ १६० ॥ वरसेनोऽथ मित्रस्यैकस्य विश्वाससद्मनः । गृहे संगोप्य वस्तूनि स्वयं भ्रमति लीलया || १६१ ।। कन्थामस्फोटनोद्भूतरत्नानां पञ्चभिः शतैः । दिव्य वस्त्रादिसामग्रीं कृत्वा चेटैः समन्वितः ।। १६२ ।। गीतसूक्तादिलीनात्मा प्रशस्ये देवमन्दिरे | उपविष्टः सुखेनाsस्ते दोगुन्दुग इवामरः ।। १६३ ॥ ( युग्मम् ) अथ तत् तादृशं तस्य स्वरूपं चेटिकामुखात् । निशम्य धनमादातुमुत्सुकाऽतीव कुट्टिनी ।। १६४ ॥ कारयित्वा सितं वेषं वेणीबन्धं च पुत्रिकाम् । मगधाख्यां कुमारस्याऽन्तिकं गत्वेदमब्रवीत् ॥ १६५ ॥ ( युग्मम् )
अत्यासङ्गवशाद् वत्स ! तदा त्वं प्रहितो बहिः तत्रैवाऽवस्थितः कस्माद् नागतो निजमन्दिरम् ॥ १६६॥ तद्दिनान्मगधा रुष्टा न मया सह जल्पति । जीवत्यपि महाकष्टं श्वेतवेषाद्यवस्थया ।। १६७ ॥ त्वदेकजीविता सैवं त्वमेवंविधलीलया ।
३९२
"
वर्तसे कथितं कथ्यं मया, कुरु कुलोचितम् ॥ १६८ ॥ इति मायावचस्तस्याः श्रुत्वा दध्यौ नृषाङ्गजः । रण्डया मण्डितं कूटमिदं भूयो ममोपरि ।। १६९ ॥ किन्त्विदानीं भलिष्येऽहमपि नत्वा ततोऽवदत् । मातर्युक्तमिदं सर्वं घटते दुहितुस्तव ।। १७० । किं करोम्यधुना शीघ्रं निरोपं देहि सा जगौ । गृहमागम्यतां सोऽपि तथैवाऽस्या गृहे स्थितः ।। १७१ ।। पुनर्वित्तागमने प्रेरिता मगधाऽभ्यधात् । अतिलुब्धासि हे ! पापे ! पृच्छ त्वं स्वयमेव तम् ॥ १७२ ॥