________________
३८२
श्रीपार्श्वनाथचरितेतन्नूनं काऽपि संपत्तिर्ममाऽपि भविताऽद्भुता। भवे भाविनि सामग्री स्यादेवं कथमन्यथा ? ॥३०॥ इति तोषादसौ सर्वं तद् भोज्यं मुनये ददौ । तद् वीक्ष्य मुदितः श्रेष्ठी तस्याऽन्यत् पर्यवेषयत् ॥३१॥ तच्च कर्मकरोनिच्छन्नूचेऽद्याऽहमुपोषितः ।। श्राद्धोऽप्युवाच यद्येवं गृहीतं किं त्वया पुरा ? ॥ ३२ ॥ सोऽब्रवीत् तात ! के हेतुं त्यजामि निजभोजनम् ? । ततस्तुष्टोऽधिकं श्रेष्ठी वात्सल्यं कुरुते तयोः ॥ ३३ ॥ इतश्च सूरसेनाऽऽख्यः कलिङ्गाधिपतिनृपः । दायादहतराज्यश्रीः कुरुदेशं गतः क्रमात् ॥ ३४ ॥ नृपं गजपुराधीशं तत्रावलगता ततः । समृद्धिबन्धुरा ग्रामाश्चत्वारस्तेन लेभिरे ॥ ३५ ॥ तत्राऽस्य सुकराभिख्ये ग्रामे निवसतः सुखम् । प्रियाऽस्ति विजयादेवी तस्याः कुक्षावातरत् ॥ ३६ ॥ पूर्व दानकृतो जीवो मृत्वा पश्चाजिनाऽर्चकः । ज्यायानमरसेनाख्यो वरसेनाभिधोऽनुजः ॥३७॥(युग्मम् ) प्राच्यपुण्यानुभावेन रूप-विद्यादिकस्तयोः । गुणौघः सह देहेन वधे स्तोकवासरैः ॥ ३८ ॥ कला-तेजोनिधी विश्वपूरिताशौ नवोदयौ । तौ राजहंसौ नो केषामनुरागं वितेनतुः १ ॥ ३९ ॥ गृहर्कायधुरामारधुर्यो सुतवृषाविमौ । मनोरथशतं पित्रोः प्रमाणभुवि निन्यतुः ॥ ४०॥ इतस्ततश्च तौ दृष्ट्वा विलसन्तौ महर्दिभिः । सापल्यजननी द्वेषं जयाख्या वहते हृदि ॥ ४१ ॥ अन्याः सा गते राज्ञोऽवलगायां स्वभर्तरि । आगते च मृषा कोपं कृत्वा कोपगृहेऽविशत् ॥ ४२ ॥ १ सेवमानने ।