________________
३८०
श्रीपार्श्वनाथचरिते
तत्राऽपि कृतिनः पूजां विधाय विधिनाऽर्हताम् । कुर्वते सफलं सद्यो गृहमेधिभवद्रुमम् ॥ ३ ॥ सा च पुष्पा-ऽक्षत-स्तोत्ररूपा सामान्यतस्त्रिधा। श्रुते प्रोक्ता प्रभोरङ्गपट्टसद्भावगोचरा ॥ ४ ॥ आसामेकतमाऽप्यासीद् विशिष्टफलहेतवे । । यथा किल तथा सम्यग् दृष्टान्तः श्रूयतां क्रमात् ॥ ५ ॥ लवोऽपि जिनधर्मस्य सुधाबिन्दुरिव ध्रुवम् । करोत्येवाऽपरीभावं सम्यगासेवितो नृणाम् ॥ ६ ॥ तत्रादौ पुष्पपूजायां कथ्यते तावदद्भुतम् । वरसेन कुमारस्य चरित्रमिह तद्यथा ।। ७ ॥ अस्त्यत्र भरते ख्यातमृषभाख्यं पुरं वरम् । ईश्वराऽवस्थितेर्नित्यं यस्याऽभूद् नाम साऽन्वयम् ॥ ८॥ तस्याऽधीशः कुशो राजा नाम यस्य दृढं गुणैः। बद्धोऽपि मण्डले प्रीतिमवाप परमां जनः ॥ ९॥ तत्राऽभयङ्करः श्रेष्ठी श्रेष्ठाचार-विचारवान् । प्रिया कुशलमत्याख्या तस्य सार्थाऽन्धयाऽभवत् ॥ १० ॥ भद्रकप्रकृती तस्याऽभूतां कर्मकरावुभौ । गृहकर्म करोत्येकश्चास्यत्यपरस्तु गाः ॥ ११ ॥ अन्यदा तो मिथो वार्ता चक्राते विजनस्थितौ । धन्य एको हि नः स्वामी यस्य शुद्धा भवत्रयी ॥ १२ ॥ प्राचीनसुकृतात् तावदिदानीं पुण्यभोगभूः । बभूव, भविता भाविभवे सुगतिसौख्यभाक् ॥ १३॥ आवां तु हतको सर्वपुरुषार्थवाहिष्कृतौ । भवं निर्गमयावः स्वमफलं स्नुहिवृक्षवत् ॥ १४ ॥ चिन्तयन्ताविति ज्ञात्वा धर्मयोग्याविमावथ । चातुर्मासदिने श्रेष्ठी सह निन्ये जिनौकसि ।। १५ ।। चारुकारितशृङ्गारौ जगाद यदहो ! सुतौ ।।