________________
पष्ठः सर्गः ।। मृत्वा सोऽशरणो जज्ञे नारकः सप्तमावनौ ॥ १३३० ॥
(युग्मम् ) अहो ! मोहो, महारत्नं मुक्या काचमणीच्छया । यदेष सहसा धावन्नन्धकूपेऽन्तराऽपतत् ॥१३३१॥ राजर्षिः पुण्डरीकस्तु धन्योऽहं येन दुर्लभः । प्राप्तोऽयं साधुधर्मस्तत् कुर्वे तं गुरुसाक्षिणम् ॥१३३२॥ चिन्तयन्निति शुद्धात्मा प्रतस्थे गुरुसन्निधौ । क्षुत् तृट्-तापादिदुःखेऽपि भावादचलमानसः ॥ १३३३॥
(युग्मम् ) मार्गातिगमनादेष गलद्रक्तपदः श्रमात् । वासाय ग्राम एकस्मिन्नुपश्रयमयाचत ॥ १३३४ ॥ तृणस्तरके तत्र शस्यलेश्यो निविश्य सः । धर्मध्यानमिदं साधुर्भावयामास चेतसि ॥ १३३५॥ कदाऽहं सुगुरोरन्ते परिव्रज्यां यथोदिताम् । करिष्यामि गताशेषकर्मनिर्मूलनक्षमाम् ॥१३३६ ॥ मस्तके चाऽञ्जलिं न्यस्य बभाण विशदाक्षरम् । नमोऽर्हद्भयो भगवद्भ्यो नमो मे धर्मसूरये ॥ १३३७ ॥ अधुनाऽपि तत्पादान्ते प्रत्याख्यामि समन्ततः । हिंसामलीकं चाऽदत्तं मैथुनं च परिग्रहम् ।। १३३८ ॥ निशाभक्तं क्रुधं मानं मायां लोभं सरागताम् । द्वेषं कलहा-ऽभ्याख्याने पैशुन्यं परनिन्दनम् ॥ १३३९ ॥ मायामृषा तथा मिथ्यादर्शनं शल्यनामकम् । त्यजाम्यष्टादशेमानि पापस्थानानि सर्वथा ।। १३४० ॥ यदपीष्टं प्रियं कान्तं चिरकालं च लालितम् । शरीरमन्तिमोच्छासे तदपि व्युत्सृजाम्यहम् ।।१३४१ ॥ इति भावाम्बुना धौतकल्मषात्मा-विपद्य सः । गत्वा सर्वार्थसिद्धाख्ये विमानेऽभूत् सुरोत्तमः ॥१३२२॥
--४८.