SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरितेसाऽपि ज्ञाततदाता प्रच्छन्नमिदमब्रवीत् ॥३१३॥ सर्वस्योपकृतिर्देव निर्विचारं विधीयते । स्तोकाऽपि न पुनः कर्तुं युज्यते नीचसंगतिः ॥३१४॥ कान्तया वारितोऽप्येवमतिदाक्षिण्यतोऽथ सः । क्षणं यामीति तामुक्त्वा सहाऽनेन गतो वनम् ॥३१५॥ तत्र निम्बस्य शाखायामुपविष्टावुभावपि । वाह्यालिक्रीडया श्रान्तस्तदाऽधश्वाऽऽगतो नृपः ॥३१६॥ उड्डीनो वायसो विष्टां कृत्वाऽथ नृपमस्तके । दृष्ट्या हंसो नरैकैन धनुर्गुलिकया हतः ॥३१७॥ पतितं भुवि तं वीक्ष्याऽवदद् परिच्छदः। अहो ! चित्रं यदीक्ष्येत हंसरूपेण वायसः ॥३१८॥ हंसः कण्ठगताऽऽत्माऽपि जनालापं निशम्य तम् । खजातिदूषणोद्धारहेतवे नृपमब्रवीत् ॥३१९॥ यतःनाऽहं काको महाराज ! हंसोऽहं विमले जले । नीचसंगप्रसङ्गेन मृत्युरेव न संशयः ॥३२०॥ इत्यादि गदितं तस्य श्रुत्वा सदयमानसः। नृपस्तद्दिनमारभ्य निवृत्तो नीचसंगतः ॥३२१॥ कुर्वतो हि तमप्येवमहिताय खलो भवेत् । अतः प्रिय ! तदाऽऽसंगो वार्यते ते पुनः पुनः ॥३२२।। सज्ज नेनापि किं तेन यः शङ्खसमलक्षणः। धवलो बहिरत्यन्तमन्तस्तु कुटिलस्थितिः ॥३२३॥ स्त्रीणामपि वचः कालेऽनुकूलं मन्यते बुधैः । दुर्गा वामरवा किं न शस्यते मार्गगामिभिः ॥३२४॥ इदं हृदि कुमारस्य चमच्चक्रे तयोदितम् । १ विदितहंसाऽभिप्राया। २ तृतीयान्तम् । ३ पक्षिविशेषः, यो वाम शब्दायमानः सुशकुनचिह्नम् ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy