________________
श्री पार्श्वनाथचरिते
तस्याऽथ वज्रवेगस्य नाम्ना सन्ध्यावली स्वसा । आगता भ्रातरं तत्र हृतं दृष्ट्वाऽकुपत्तराम् ।। ११३५ ।। वज्रहन्तुरियं भार्या भवितेति मुनेर्वचः ।
पुनः स्मृत्वा विवाहार्थं सा कुमारमुपस्थिता ।। ११३६ ॥ गन्धर्वविधिना साऽपि कुमारेण विवाहिता ।
३६२
सुखेन तस्थुषोऽस्यैवं यज्जातं तन्निशम्यताम् ।। ११३७ ॥ चन्द्रवेग - भानुवेगखेचराभ्यां सुतौ तथा । प्रेषितौ रथ- संनाहौ ताभ्यां चाऽभाणि राजसूः || ११३८ ।। पुत्रस्य मृत्युवृत्तान्तं ज्ञात्वा देव ! तवोपरि | आगच्छत्यशनिवेगो विद्याधरबलैः समम् ।। ११३९ ॥ तदावां प्रेषितौ चन्द्र- हरिचन्द्राऽभिधौ सुतौ । युष्पच्चरणसेवार्थमुत्सुकाः पितरोऽपि नः ।। ११४० ॥ अथागतौ चन्द्रवेग भानुवेगौ सहायके ।
सन्ध्यावल्याऽपि दत्ताऽस्य विद्या प्रज्ञप्तिसंज्ञिका ।। ११४१ ।। अथाssगादशनिवेगवलं कलकलाकुलम् |
प्रलयायेव लोकानां मुक्तसीमाम्बुधैर्जलम् ॥ ११४२ ॥ तदा सैन्यद्वये वीरसन्नाहोत्साहकारिणा । भेरीभाङ्कारनादेन सहसाऽपूर्वताऽम्बरम् ॥ ११४३ ॥ कुमारस्य पुरश्चन्द्र- भानुवेगबलं ततः । सैन्येनाऽशनिवेगस्य सह योद्धुं प्रचक्रमे ।। ११४४ ॥ हस्ती नागं, हयो वाहं, पत्तिः पत्ति, रथो रथम् । सख्यार्थमिव सख्यायाऽन्योऽन्यं समतयाऽमिलत् १९४५ सैन्यमेघे शरासारं नभः प्रच्छाद्य वर्षति । शिरःकमलसंकीर्णा रक्तनद्यस्तदाऽवहन् ।। ११४६ ॥ तयो रणमहोत्साहवशान् मिलितयोः क्रमात् । प्रावर्तत महायुद्धमबद्धबलयोर्द्विधा ॥। ११४७ ॥
१ सङ्ग्रामाय ।
-