________________
षष्ठः सर्गः।
३५९ कराभ्यां प्रहरन् बाहुप्रहारेण प्रपातितः ॥ १०९५ ॥ ततो राक्षसरूपेण तेन जातोरुमत्सरात् । कुमारः कर्कशं लोहमुद्गरेण हतो हृदि ॥ १०९६ ॥ तेनाऽप्येकं महावृक्षमुन्मूल्याऽऽच्छोटितोऽसुरः । वृद्धिमूर्ध्वं दधत् छिन्नद्रुमवत् पतितः क्षितौ ।। १०९७ ॥ रक्षसोत्पाट्य तस्याऽथो परिक्षिप्तो गिरिर्महान् । पीडिताङ्गो दृढं तेन सोऽपि निश्चेतनोऽजनि ।।१०९८॥ लब्धसंज्ञः क्षणाद् भूयः कुमारो यक्षराडपि । प्रवृत्तौ बाहुयुद्धेन योद्धमाबद्धमत्सरौ ॥ १०९९ ।। नर्दन्तौ मत्तवृषवत् सिंहनादं च मुञ्चतः । वेतालवच्च कुरुतो महाकिलकिलारवम् ॥११००॥ चक्रवच्च परिभ्राम्योल्ललतस्तौ प्लवङ्गवत् । कुकुटाविव वेगेनाऽपसृत्य मिलतः पुनः ॥ ११०१ ॥ कुमारेण ततो लब्धलक्षेणाऽऽहत्य मुष्टिना। शतखण्डीकृतो यक्षोऽमरत्वान् न मृतः पुनः ॥११०२ ॥ नष्टे तस्मिन्नथाराटीं मुक्त्वा तत्कौतुकाऽऽगतैः।। देव-विद्याधरैयोम्नि कृतो जयजयारवः ॥ ११०३ ॥ अहो ! यक्षः कुमारेण जितोऽयमितिवादिभिः । विहिता पुष्पवृष्टिश्च कुमारोपरि हर्षितैः ॥ ११०४ ॥ आर्यपुत्रस्ततो यावदपराह्ने सरोवरात् । . . प्रतस्थे तावदायासीदग्रतो नन्दनं वनम् ॥ ११०५ ॥ तत्राऽष्टौ भानुवेगस्य विद्याधरपतेः सुताः । अपश्यद् दिव्यरूपेण दिक्कुमारीरिवाऽद्भुताः॥११०६॥ स्निग्धदृष्ट्या स ताभिश्च वीक्ष्यमाणोऽतिविस्मयात् । गत्वा तदन्तिके कन्यामेकामुद्दिश्य पृष्टवान् ॥ ११०७॥ का यूयं किं निमित्तं च शून्यारण्यमलकृतम् । भवतीभिरिदं ता अप्यूचुर्मधुरया गिरा ? ॥ ११०८ ॥