________________
षष्ठः सर्गः। ३५१ नैष सर्पपतुल्योऽपि यतिधर्ममहागिरेः ॥ ९९१ ।। हरिः प्राह कुरु स्वर्णमणिमुक्तादिसंचयम् । मा त्वमागामिभोगानां हेतोर्हस्तगतांस्त्यज ॥ ९९२ ॥ व्रत्याह स्वर्णशैलैरप्यसन्तुष्टस्य नो धृतिः । कामाश्च विषशल्याहितुल्यास्तैः शंस किं सुखम् ? ॥९९३॥ न भोगाऽऽशंसया भोगास्त्यक्ता हस्तगता मया । अजीर्णसंभवे दोषे घृतं पिबति कः सुधीः १ ॥ ९९४ ॥ इत्यादिभणितोऽप्येष यदा न चलति व्रतात् । साक्षाद् भूत्वा ततः शक्रो नमि नत्वेदमब्रवीत् ॥ ९९५ ॥ तवैव श्लाघ्यते गोत्रं सत्त्वं यस्याऽसमं मुने !। यश्च त्वं मोहपङ्केन नाकाशमिव लिप्यसे ॥ ९९६ ॥ इत्येवं तं हरिः स्तुत्वा वन्दित्वा त्रिः प्रदक्षिणम् । उत्पपात नभो देदीप्यमानमणिकुण्डलः ॥ ९९७ ॥ अरुष्टतुष्टो निर्वाह्य व्रतं सिद्धिं गतो नमिः । साध्वी मदनरेखाऽपि शुद्धा शुद्धगतिं गता ।। ९९८ ॥ जन्तुचित्तं स्थिरीकर्तुं शीलस्यैवं गुणा-ऽगुणाः । पालना-ऽपालनादुक्ता अधुना तप उच्यते ।। ९९९ ॥ तप एव परं तेजः सर्वेषामपि तेजसाम् । प्रकाशयति यज् ज्ञानात् सहसैव जगत्त्रयम् ॥ १००० ।। तपस्तेजोऽर्कसंपर्काज्जीवसूर्योपलेऽमले । तेजस्तज्जायते येन कमँधो भस्मतां व्रजेत् ।। १००१ ॥ बाह्याऽभ्यन्तरभेदाख्यधाराद्वितयशालिना । तपःखङ्गेन ये मोहं नन्ति ते सुभटा भुवि ॥ १००२ ॥ अनन्तकालनिचितं निकाचितमपि क्षणात् । दह्यते तपसा कर्म दारुग्रन्थिरिवाऽग्निना ॥ १००३ ॥ आत्मा सितपटः सूक्ष्मस्तपस्ताप-शमोदकैः । क्षीणकर्ममलोऽत्यन्तं मुक्तिश्रीमुक्तिभाग भवेत् ॥१००४॥