SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ श्री पार्श्वनाथचरिते निर्मितं कथयामासुरन्योऽन्यं हर्षनिर्भराः ।। ६९५ ॥ विसंवादेऽथ सर्वेषां स्पर्धाविन्धो महानभूत् । यदस्माभिः कृतं कार्य प्रलयेऽपि किमन्यथा ? ॥ ६९६ ॥ यथावृतवराणां च लग्नमेकं प्रहित्य तैः । संवाहः कर्तुमारेभे विवाहाय सविस्तरम् || ६९७ ॥ अथ लग्नदिने प्राप्ते चत्वारोऽपि वराः समम् । तत्राऽऽगत्य बहिस्तस्थुर्महायानपरिग्रहाः ।। ६९८ । परिणेतुं च तां सर्वे सममाजग्मुरुद्धताः । विवदमाना युद्धाय सन्नद्धाश्च रुषाऽभवन् ।। ६९९ ।। सा तेषां युद्धसंरम्भं पुरुषक्षयकारणम् । पित्रादीनां विरोधं च वक्ष्यि नन्दा व्यचिन्तयत् ॥७०० ॥ धिग मां यस्याः कृतेऽमीषां महाऽनर्थोऽयमुत्थितः । मृतायां मयि सर्वेषां श्रेयो भवति नान्यथा ।। ७०१ ॥ निश्चित्यैवं चितां बाह्ये रचयित्वैकमानसा | साहिं साधयामास सदुःखं वीक्षिता जनैः ॥ ७०२ ॥ तेषामेको वरो वह्निं प्रविवेश तया सह | द्वितीयस्तु विरागेण दूरदेशान्तरं ययौ ।। ७०३ ॥ तृतीयोऽपि तदङ्गान्यादाय तीर्थ प्रतस्थिवान् । तुर्यस्तु तस्याः शेषाङ्गोपरि स्थण्डिलकं व्यधात् || ७०४ ॥ याचित्वा च पुरे भिक्षां मुक्त्वा तत्राऽन्नपिण्डकम् । स्वयं भुङ्क्ते प्रियामोहात् तत्रास्ते च दिवानिशम् ।। ७०५ ।। कियत्यपि गते काले देशान्तरगतो वरः । काsपि संजीवनीं विद्यां प्राप्य तत्राप्ययौ मुदा ॥ ७०६।। आकृष्य स्थण्डिलाच्छेषाऽस्थीनि विद्याऽनुभावतः । - चक्रे पुनर्नवां कन्यां नव्यः सहमृतोऽप्यभूत् ।। ७०७ ।। तीर्थान्तरगतोऽप्यागात् तदानीं तत्र दैवतः । कन्यार्थं विवदन्ते स्म चत्वारोऽपि तथैव ते ।। ७०८ ॥ ३२८
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy