________________
षष्ठः सर्गः ।
३२३
मयूरग्राहको यद् यथा च किल वानरः ।। ६२९ ॥ तथाहिकेनाsप्याराधितो यक्षो भक्तितो धनवान्छया । अनिर्विण्णतया तस्मै सुरस्तुष्टो ददौ वरम् || ६३० ॥ अहो ! यो नृत्यति स्वर्णमयूरः पुरतो मम । तस्यैकं गलितं पिच्छं त्वया ग्राह्यं दिने दिने ।। ६३१ ।। इति यक्षसमादिष्टं कुर्वन् दध्यौ नरोऽन्यदा । किमु कालविलम्बेनाऽखिलं गृह्णामि बर्हिणम् ।। ६३२ ।। इति ध्यात्वा गृहीत्वा च तं यावद् वीक्षते कुधीः । तावदन्यशिखिप्रख्यं दृष्ट्वा सोऽप्याकुलोऽभवत् ॥ ६३३॥ मागतान्यपि गत्वाऽसौ गृहे सामान्यपिच्छवत् । पिच्छानि वीक्ष्य वक्षः स्वं ताडयन् बह्वशोचत ॥ ६३४ ॥ तथैकत्र वने प्रीत्या युग्मं वानरयोरभूत् । प्रपाताख्यं ययौ तीर्थमन्यदा तत् परिभ्रमत् ॥ ६३५ ॥ तच्च तीर्थतरौ तत्राऽऽरोहच्चापल्यतस्ततः । पपात सद्यो जज्ञे च मर्त्ययुग्मं मनोहरम् || ६३६ ॥ तादृक् तीर्थस्य माहात्म्यं दृष्ट्रा तअतिविस्मितम् । सुखमास्तेऽतिलुब्धत्वादथो स्त्रीं पुरुषोऽवदत् || ६३७॥ वानरत्वं प्रिये ! तावत् त्यक्त्वाऽवानरतां गतौ । पतावः पुनरप्यत्रारुह्य देवत्वहेतवे ।। ६३८ ॥ अथो जगाद सा दक्षाऽतिलोभो न शुभः प्रिय ! | वारितोऽपीत्यमर्षेण वृक्षमारुह्य सोऽपतत् ।। ६३९ ।। भूयोऽपि वानरः सोऽभूद् दुःखितश्चारटद् भृशम् | तत्रायातेन साऽपि खी खेचरेण समं ययौ । ६४० ॥ इति ज्ञात्वा सुसंतोषं हृदि धारय तं विना । आरुह्योच्चैरपीच्छा यत् तथैवाकाशवद् नृणाम् ॥ ६४१ ॥ अथाऽसौ तं मुनिं नत्वा प्रीतः पुष्पपुरं ययौ ।