SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः। ३१९ यथा निष्कृत्रिमस्नेहविधौ जज्ञे निदर्शनम् ॥ ५७७ ॥ पल्यङ्कादुत्थिताऽन्येयू रुदती भर्तृभानुना । पृष्टा प्रिये ! किमेतत् साऽवदन्नाथ ! न किश्चन ? ॥५७८॥ आग्रहेण पुनः पृष्टाऽऽचख्यौ स्वमेऽद्य यद् मया । प्रिय ! दृष्टोऽसि संभाष कुर्वाणोऽन्यस्त्रिया सह ॥ ५७९ ॥ तत् श्रुत्वा सचिवो दध्यौ सपत्नी वीक्ष्य याऽजनि । इत्थं स्वप्रेऽपि सा साक्षाद् दृष्टा कीदृग् भविष्यति ॥५८०॥ पत्नी तदियमेकैव यावज्जीवं न मेऽपरा । तयोः स्नेहप्रकर्षोऽयं प्रसिद्धिमगमत्तराम् ॥ ५८१ ॥ अन्यदा सचिवे राज्यभारमारोप्य भूपतिः । दूरं कटकयात्रायां गतस्तत्राऽस्ति सुस्थितः ॥ ५८२ ॥ दम्पतीविषये वार्ता प्रस्तावे यावदेकदा।। कोऽपि राज्ञः पुरोऽशंसत् स्वरूपं भानुमन्त्रिणः ॥ ५८३॥ परक्षिार्थ ततो राज्ञा कार्यमुद्दिश्य मन्त्रिणम् । आकार्य स्वान्तिके प्रैषीनरं जयपुरे द्रुतम् ॥ ५८४ ॥ तेन तत्र नृपादेशादलीका भानुमन्त्रिणः । विपत्तिविषया वार्ता सदुःखेनेव निर्मिता ॥ ५८५ ॥ वज्रघातसमं वाक्यं तनिशम्य सरखती । सञ्जातहृदयस्फोटा सहसा पश्चतां गता ५८६ ॥ तद् नरः कटके गत्वा नरेन्द्राय न्यवेदयत् । नृपोऽप्यत्याकुलश्चित्ते दध्यौ धिक् किं कृतं मया ? ॥५८७॥ स्त्रीघातपातकादस्माद् मोक्ष्ये कथमहं हहा ! १ । हास्येनाऽपि न कर्तव्यमकार्य हितमिच्छता ।। ५८८ ॥ अन्यच्च सचिवस्तस्या मृति यावत् शृणोति न । तत्प्राणान् रक्षितुं तावदुपायः कोऽपि चिन्त्यते ॥ ५८९॥ इति राजा गतोऽमात्यपार्वेऽमात्योऽपि संभ्रमात् । उवाच किमयं देव ! भृत्यान्ते खयमागमः ॥ ५९०॥
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy