________________
षष्ठः सर्गः। मनोरथसरोभर्ता धर्ताऽम्बुदवदङ्गिनाम् ॥ २७० ॥ भोगीन्द्रस्थितिमूलान्यः साम्राज्यस्कन्धबन्धुरः । देवर्द्धिविटपो धत्ते धर्मवृक्षः शिवं फलम् ॥ २७१ ॥ अतो धर्मः सदा सेव्यो हेतुरूपः फलार्थिभिः । दान-शील-तपो-भावभेदात् त्वेष चतुर्विधः ॥ २७२ ।। तत्र तावत् त्रिधा तज्ज्ञैर्दानधर्मः प्रकीर्तितः । ज्ञानदाना-ऽभयदान-धर्मोपष्टम्भदानतः ॥ २७३ ॥ यथा लध्वपि सच्चक्षुजने गौरवभाजनम् । तथाऽल्पमपि संज्ञानं तदानं श्रेष्ठमेषु तत् ॥ २७४ ॥ सम्यग् ज्ञानेन वेत्त्यात्मा पुण्य-पापे ततस्तयोः । प्रवृत्तिं च निवृत्तिं च कृत्वा मोक्षसुखं व्रजेत् ।। २७५ ॥ विनाशः शेषदानानां कुतोऽपि कापि दृश्यते । ज्ञानदानं पुनर्वृद्धिसिध्यै स्वस्य परस्य च ॥ २७६ ॥ दत्तानि विश्वसौख्यानि तस्मै तेनाऽखिलान्यपि। यो दत्ते दुर्लभं यस्मै ज्ञानं सर्वज्ञभाषितम् ॥ २७७ ।। याति रागगणो ज्ञानादर्कात् तम इव ध्रुवम् । तेनाऽन्यो नोपकारोऽस्ति ज्ञानदानसमो भुवि ।। २७८ ।। किं वाऽथ बहुना ज्ञानदानात् त्रैलोक्यपूजितः ? । सर्वज्ञो भवतीत्यत्र धनमित्रो निदर्शनम् ॥ २८९ ॥ तथाहिअस्त्यत्र मगधाऽभिख्ये देशे राजपुरं पुरम् । तत्रासीत् त्रासरहितो जयन्तो नाम पार्थिवः ॥ २८० ॥ तत्पुत्रौ कमलावत्याः सत्याः कुक्षिभवावुभौ । विजयश्चन्द्रसेनश्व कुमारगुणशालिनौ ।। २८१ ॥ किन्तु प्राकर्मदोषेण कृताऽमर्षों परस्परम् । असहिष्णू परं तेजस्तौ निर्गमयतो दिनान् ॥ २८२ ॥ नृपमन्येशुरास्थानस्थितं वेत्री व्यजिज्ञपत् ।