________________
२८८
श्रीपार्श्वनाथचरितेतैरप्यक्षोभि न तिलतुषमात्रमपि प्रभुः । बहीभिरपि वात्याभिः कथं चलति मन्दरः १ ॥ १८० ॥ तथाकाष्ठमङ्गारतां याति भस्मतां गोमयादिकम् । वह्नौ कीर्ण सुवर्ण तु सुवर्णोत्कर्षतां व्रजेत् ॥ १८१ ॥ जातामर्षस्ततो बाढं भवे स्वमिव तं प्रभुम् । नीरे मज्जयितुं पापो विचक्रे घनमम्बरे ॥ १८२ ॥ कालरात्रिनिभः क्लप्ततर्जितैरिव गर्जितैः। सोऽपूरयद्दिशः कालजिह्वामा विद्युदातत् ॥ १८३ ॥ निरुद्धचक्षुःप्रसरमसञ्चारं तमोभरैः। तदाऽभूदाकुलं विश्वं गर्भवास इव स्थितम् ॥ १८४ ॥ मुशलाकारधाराभिः प्रवृत्ते वर्षितुं घने । रोदस्येकजला जज्ञे प्लाविता जन्तवो जलैः ॥ १८५ ॥ क्रन्दन्तीव दिशो गर्जिनादैर्धाराश्रुभिनभः । रोदितीव भुवोऽप्यास्यं नीरैश्वीरिवावृतम् ॥ १८६ ॥ केषां दुःखं न पार्श्वस्योपसर्गेऽभूनिशाऽपि यत् । चक्रेऽभ्रच्छन्ननक्षत्रव्याजान्नेत्रनिमीलनम् ॥ १८७ ॥ प्रभोर्जानुकटीकण्ठदनं नीरं भवत् क्रमात् । नासाग्रमाययौ नेत्रेऽस्याऽशोभेतां तदाऽब्जवत् ॥ १८८ ।। नासाग्रन्यस्तगयुग्मः सदाऽयं तत् तदेव हि । पश्यामीति धियेवाऽम्भः प्रभोर्नासाग्रमाययौ ॥ १८९ ॥ तथाऽपि स निजान्नाथः स्थानाद् ध्यानाच्च नाऽचलत् । भवाम्भोधिपतद्विश्वाधारस्तम्भ इव स्थितः ॥ १९ ॥ अथो विवेद धरणोरगेन्द्रोऽवधिना विभोः । कठोपसर्ग सद्यश्च स्वदेवीभिः सहाययौ ॥ १९१ ॥ प्रभुं नत्वाऽथ सोऽम्भोज न्यधात् तत्पादयोरधः । खभोगेन पुनः पृष्ठं पाश्वौं च पिदधे विभोः ॥ १९२ ।।