________________
२७८
श्रीपार्श्वनाथचस्तिजनानां जनयन् प्रीतिं वासरानत्यवाहयत् ॥ ४९ ।। सौधेऽन्यदा गवाक्षस्थः प्रभुः काशी विलोकयन् । सपूजोपस्करान् पौरानपश्यद् गच्छतो बहिः ॥ ५० ॥ जगाद च निजान् कोऽयमद्याहो ! बहिरुत्सवः । येनेत्येष जनो याति पुरीतो हर्षसत्वरम् ।। ५१ ॥ कोऽप्यूचे देव ! पश्चाग्नितपः कुर्वन् कठाह्वयः। आगतोऽस्ति तपस्व्येको जनो याति तमर्चितुम् ।। ५२ ।। तं द्रष्टुं कौतुकात् तत्र सानुगः प्रभुरप्यगात् । अपश्यच्च कटं तीव्र पश्चाग्नितपास स्थितम् ॥ ५३॥ ज्ञानत्रयधरः स्वामी दह्यमानं महोरगम् । अपश्यद् वह्निकुण्डान्तः क्षिप्तकाष्ठान्तरस्थितम् ॥ ५४ ॥ तं दृष्ट्वा सहसाऽवोचत् कृपाम्भोधिरिदं. विभुः । अहो ! अज्ञानमज्ञानां यत् तपस्यपि नो दया ॥ ५५ ॥ बालगोपालकादीनामप्येवं सर्वतः सदा । प्रसिद्धं यद् दयाहीनो धर्मो न स्यात् कथञ्चन ॥५६॥ यथा नाथं विना सैन्यं यथात्मानं विना वपुः । शेषकष्टक्रिया शून्या दयाधर्म विना तथा ॥ ५७ ॥ वस्य चेत् कष्टमारेभे तदन्येषां करोषि किम् ? । जीवघातात् कथं पुण्यं न विषादमृतोद्भवः ॥ ५८ ॥ इति श्रुत्वा कठः प्रोचे हस्त्यश्वायेव केवलम् । राजपुत्रा विजानन्ति धर्म तु मुनिपुङ्गवाः ॥ ५९ ॥ ततस्तत्प्रत्ययार्थ स्वैर्नरैराकृष्य कुण्डतः तत् काष्ठं स्फोटयामास यत्नेन जगतां पतिः ६० ॥ सहसा निरगात् तस्मादहिर्दाहाकुलः स्फुरन् । तस्य चाशु नमस्कारं नृभिः प्रभुरदापयत् ॥ ६१ ॥ विभोगवाक्यपीयूषैः सोऽस्ततापः समाधिना । नमस्कारामृतं पीत्वा मृत्वा नागाधिपोऽभवत् ॥ ६२ ॥