SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २७६ श्रीपार्श्वनाथचरितेविदधे तत्कुलस्त्रीभिर्वर्णकोद्वर्णकक्रमः ॥ २४ ॥ स्नपयित्वा स्वर्णकुम्भैः फलपुष्पपयोभृतैः । गुरुदत्ताऽक्षतां मूर्धन्यथ तास्ताममण्डयन् ॥ २५ ॥ तस्या देहा-क्षि-पादेषु कुङ्कुमा-ऽञ्जन-यावकाः। कस्तूरिका कपोले च प्रत्युतापुः परां श्रियम् ॥ २६ ॥ नूपुरे पादयोर्मध्ये मेखलाङ्गुलिघूमिकाः । सरिका बाहुयुग्मे च तारहारस्तु वक्षसि ॥ २७ ॥ मुक्तानां कण्ठिकाः कण्ठे कर्णयो रत्नचक्रिके । भाले रत्नमयी चन्द्रलेखा मुनि शिरोमणिः ॥ २८ ॥ सुस्थानलाभसंतोषादिवाऽस्या दिव्यवाससः । लग्नानीत्युल्लसन्ति स्म भूषणानि तनौ भृशम् ॥ २९ ॥ (विशेषकम् ) इत्थं श्रीपार्श्वनाथोऽपि दक्षस्त्रीभिः प्रसाधितः । राज्ञो मौहूर्तिकैलेंग्नप्रत्यासत्तिनिवेदिता ॥ ३० ॥ ततो राजसमादिष्टः परिवारभृतोऽभितः । धवलदिरदारूढः कुमारः कृतमङ्गलः ॥ ३१ ॥ सचामरगजारूढवाररामोपशोभितः। .... वसन्तश्रीशरल्लक्ष्मीयुतः काम इवाङ्गवान् ॥ ३२ ॥ विचित्रवाहनारूढैवेष्टितोऽनेकपार्थिवैः। तूर्यनादे खमुत्सर्पत्याख्यातुं त्रिदशानिव ॥ ३३ ॥ वीक्ष्यमाणः पुरस्त्रीभिः साभिलाषं सकौतुकम् । , सच्छायो लीलया गच्छन् प्रापदुद्राहमण्डपम् ।। ३४ ॥ (चतुर्भिः कलापकम् ) तत्र चाऽऽचमनं दत्त्वाऽवतीर्णस्य करीश्वरात् । दत्तः श्वश्रूजनेना? दधि-दूर्वा-क्षतादिभिः ॥ ३५ ॥ मुशलेनाऽलिके स्पृष्टः कृतमन्थयुगक्रमः। १ •ऽस्या वरस्त्रीभिः, एवमपि । २ कटौ । ३ मुद्रिका : ४. भूषितः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy