________________
पञ्चमः सर्गः। २६३ धात्रीरप्सरसः पश्चाऽऽदिश्य नन्दीश्वरं ययौ ।। ११६ ॥ मेरास्तत्रैयुरन्ये तु वासवाः शाश्वताऽर्हताम् । ते सर्वेऽष्टाहिकां कृत्वा हृष्टाः स्वस्वाऽऽस्पदं ययुः ॥ ११७ ॥ वामाऽपि स्वामिनी बुद्धा विबुद्धवदनाऽम्बुजा । दिव्याङ्गरागनेपथ्यं वीक्ष्य पुत्रममोदत ॥ ११८ ॥ देव्याः परिच्छदः पुत्रजन्मोदन्तान्नृपं तदा। वर्धयित्वाऽथ दिक्कन्यागमाऽऽयं सर्वमाख्यत ॥ ११९ ।। नृपस्तुष्टो भृशं दत्त्वा स तस्मै पारितोषिकम् । मोक्षहतुसुतप्रीत्या कारामोक्षमकारयत् ॥ १२० ॥ उछ्तिा युगमन्थाद्याः सौधद्वारे सहस्रशः । उच्चै?षोऽभवत् सूतमातृकायाः समन्ततः ॥ १२१ ॥ नृत्यदिव्याङ्गनागीतैस्तूर्यनादैर्जयाऽऽरवैः । उलूलुशङ्खध्वनिभिः सुशब्दक्यं तदाऽभवत् ।।१२२ गच्छन्त्या दानसन्मानैरायान्त्या वर्धनैः श्रियाः । तद्व्यूढमपि संकीर्ण तदाऽभूद् राजमन्दिरम् ॥ १२३ ॥ कुलाचारे कृते कृत्स्ने निवृत्ते सूतके नृपः ।। आरंभे विश्वसत्कारपूर्व नामक्षणं प्रभोः ॥ १२४ ॥ तस्मिन् गर्भस्थिते वामा निशि ध्वान्तेऽपि पार्थतः । सर्प सर्पन्तमद्राक्षीत् पत्युः सद्यः शशंस च ॥ १२५ ।। स्मृत्वा तदेष गर्भस्य प्रभाव इति निर्णयन् । पाच इत्यभिधां सूनोरश्वसेननृपोऽकरोत् ॥ १२६ ॥ रत्नाद्रिवत् सुरत्नेन बालार्केणोदयाद्रिवत् ।। मेरुवत् कल्पवृक्षेण रेजेऽङ्कस्थेन तेन राट् ॥ १२७ ॥ लाल्यमानः स धात्रीभिरिन्द्रादिष्टाभिरादरात् । क्षुधोदये निजाऽङ्गुष्ठाद् रसं शक्राऽऽहितं पपौ ॥ १२८ ॥ स्वामिनं रमयामासुः प्रीत्या सुरकुमारकाः। हंस केकि-शुका भूत्वा कलभा वृषभास्तथा ॥ १२९ ॥