SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २६० श्रीपार्श्वनाथचरिते सूतिकाभवने भूयो वामादेवीं विभुं च ताः। शय्यागतौ विधायाऽस्थुर्गायन्त्यो मङ्गलान्यथ ।।७७॥ तदाऽभूनित्यघण्टानां स्वर्गेषु युगपद् ध्वनिः । सुरेन्द्राणां च नृत्यन्तीवासनानि चकम्पिरे ।।७८|| ज्ञात्वाऽथाऽवधिना शक्रो जिनजन्मोज्झितासनः । कियच्च जिनमभ्येत्य प्रणम्य विधिनाऽस्तवीत् ।।७९॥ नैगमेषिणमादिश्य सुघोषाघण्टया ततः। ज्ञापयामास शक्रोऽर्हज्जन्मकृत्यं च नाकिनः ।।८।। स सद्यो मिलिताऽशेषसौधर्मसुरशोभितः । क्षणात् तत्राऽऽरदाऽऽरुह्य विमानं पालकाभिधम् ।।८१॥ मुदा प्रदक्षिणीकृत्य विभोर्जन्मगृहं ततः। मुक्त्वा विमानमैशान्यां वामां नत्वेति चाऽस्तवीत् ।।८२॥ कुक्षी रत्नधर ! देवि ! जगन्मातः ! सुलक्षणे !। नमस्तुभ्यं त्वमेवासि स्त्रीणां गुरुमहत्त्वभृत् ।।८३।। यया त्रिभुवनस्याऽपि धर्ममार्गप्रकाशकः । दिव्यरत्नप्रदीपोऽयं सुषुवे भगवान् जिनः ।।८४॥ जिनजन्मोत्सवं कर्तुमागां शक्रोऽस्मि तन्न भीः । कार्येत्युक्त्वा हरिदेव्या अवस्वापनिकां ददौ ॥८॥ प्रतिरूपं प्रभोर्यस्य तत्राऽसौ पश्चरूपभृत् । भूत्वैकेनाऽञ्जलौ रूपेणाऽनुज्ञाप्याऽऽदद जिनम् ॥८६॥ उभाभ्यां चामरे छत्रं दधेऽन्येन प्रभूपरि । एकेनोल्लालयन् वज्रं वल्गन् शक्रः पुरोऽभवत् ॥८७।। जयध्वनिमुखैर्देवैः सर्वतोऽपि वृतो हरिः । उत्पत्य गगनेनाऽगात् क्षणान्मेरुमहीधरम् ।।८८॥ तत्राऽन्तःपाण्डुकवनं चूलिकादक्षिणेन तु । अतिपाण्डुकम्बलायां शिलायां शीतगुत्विषि ॥ ८९ ।। सिंहासने जिनस्नात्र योग्येऽङ्कस्थापिनप्रभुः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy