SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वनाथचरिते ज्ञात्वा चाऽवधिना जैनं जन्म ता ननृतुर्मुदा । स्वस्वस्थानादथाऽऽजग्मुस्ताः सूतिभवनं क्रमात् ॥ ५० ॥ भोगंकरा भोगवती सुभोगा भोगमालिनी । सुवत्सा वत्समित्रा च पुष्पमालात्वनिन्दिता ॥ ५१ ॥ एता मेरुचकाsधोलोकस्था दिक्कुमारिकाः । आगत्याऽष्टौ जिनं नत्वा जिनाम्बां चैवमूचिरे ॥ ५२ ॥ नमस्तुभ्यं जगन्मातर्जगदीपप्रदायिके ! 1 २५८ अष्टौ वयमधोलोकवासिन्यो दिक्कुमारिकाः ।। ५३ ॥ जिनजन्मोत्सवं कर्तुमागताः स्मो वयं हि तत् । मा भैषीरित्युदित्वा व्यकुर्वन् संवर्तमारुतम् ॥ ५४ ॥ तेन शुद्धिं भुवः कृत्वा योजनं परितो गृहम् । जिनासन्ननिषण्णास्तास्तं गायन्त्योऽवतस्थिरे ।। ५५ ।। मेरा मेघवती सुमेघा मेघमालिनी । तोयधारा विचित्रा च वारिषेणा बलाहिका ॥ ५६ ॥ इत्यूर्ध्व लोक वासिन्योऽप्येत्याऽष्टौ दिक्कुमारिकाः । मेघं विकृत्य सिक्त्वोव पुष्पवृष्टिं वितेनिरे ॥ ५७ ॥ जिनस्य जिनमातुश्च नतिः कृत्यनिवेदनम् । गुणगानं स्वदिस्थानं दिक्कन्यानामयं विधिः ॥ ५८ ॥ तथाऽष्टौ कन्यकाः पूर्वरुचकाद्रिस्थिता अपि । एत्य कृत्वा विधिं तस्थुः प्राक्पक्षे दर्पणान्विताः ॥ ५९ ॥ -ताव नन्दो - तरानन्दे आनन्दा नन्दिवर्धने । विजया वैजयन्ती च जयन्ती चापराजिता ॥ ६० ॥ समाहारादयोऽष्टैत्य दक्षिणाद् रुचकादथ भृङ्गारपाणयः कन्या दक्षिणेन जिनं स्थिताः ॥ ६१ ॥ समाहारा सुप्रदत्ता सुमबुद्धा यशोधरा । लक्ष्मीवती शेषवती चित्रगुप्ता वसुन्धरा ।। ६२ ॥ प्रत्यगुरुचकतोऽभ्येयुः कुमार्योऽष्टाविलादयः ।
SR No.022559
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt, Bechardas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy